पञ्चमुख
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमुखः, पुं, (पञ्चं विस्तृतं मुखं यस्य सः ।) सिंहः । इति राजनिर्घण्टः ॥ (पञ्च मुखानि यस्य सः ।) शिवः । इति हेमचन्द्रः ॥ तस्य नामवर्णादि यथा, देवीपुराणे । “शिवस्तत्र स्थितः साक्षात् सर्व्वपापहरः शुभः । स तु पञ्चमुखः ख्यातो लोके सर्व्वार्थसाधकः । पञ्चब्रह्मात्मको यस्मात्तेन पञ्चमुखः स्मृतः ॥ पश्चिमे तु मुखे सद्यो वामदेवस्तथोत्तरे । पूर्ब्बे तत्पुरुषं विद्यादघोरञ्चापि दक्षिणे ॥ ईशानः पञ्चमो मध्ये सर्व्वेषामुपरि स्थितः । एते पञ्च मुखा वत्स ! पापघ्ना ग्रहनाशनाः ॥ सद्योजातं भवेच्छुक्लं वामदेवन्तु पीतकम् । रक्तस्तत्पुरुषो ज्ञेयोऽघोरः कृष्णः स एव च ॥ ईशानः पश्चिमस्तेषां सर्व्ववर्णसमन्वितः । कामदः कामरूपी स्यात् ज्ञानाधारः शिवात्मकः ॥ (रुद्राक्षविशेषः । अस्य धारणतः शुभं भवति ॥ पञ्च मुखानि यस्य इति विग्रहे वाच्यलिङ्गत्वम् । यथा, रामायणे । ५ । ४१ । २३ । “तस्य पञ्चायसांस्तीक्ष्णान् शितान् पञ्चमुखान् ततः । शिरस्युत्पलपत्राभान् दुर्धर्षः संन्यवेशयत् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमुख¦ त्रि॰ षञ्च मुखान्यस्य।
१ पञ्चवदनयुक्ते स्त्रियां स्वाङ्ग-त्वात् ङीष्।
२ महादेवे पु॰ तन्मुखनामादि देवीपु॰ उक्तंयथा
“शिवस्तत्रस्थितः साक्षात् सर्वपापहरः शुभः। स तु पञ्चमुखः ख्यातो लोकसर्वार्थसाधकः। पञ्च-ब्रह्मात्मको यस्मात्तेन पञ्चमुखः स्मृतः। पश्चिमे तुमुखे सद्यो, वामदेवस्तथोत्तरे। पूर्वे तत् रुषं विद्याद-घोरं चापि दक्षिणे। ईशानः पञ्चमो मध्ये सर्वेषामु-परिस्थितः। एते पञ्चमुखा बत्स पापध्ना ग्रहनाशनाः। सद्योजातो भवेच्छुक्लो वामदेवस्तु पीतकः। रक्तस्तत्पु-रुषो ज्ञेयोऽघोरः कृष्णः सएव च। ईशानः पश्चिमस्तेषांसर्ववर्णसमन्वितः। कामदः कामरूपी स्यात् ज्ञानाधारःशिवात्मकः”।
३ पञ्चवक्त्रे रुद्राक्षभेदे च
“पञ्चवक्त्रः स्वयंरुद्रः कालाग्निर्नामनामतः। अगम्यागमनाच्चैव अभ-क्ष्यस्य च भक्षणात्। मुच्यते सर्वपापेभ्यः पञ्चवक्त्रस्यधारणात्” तिथि॰ त॰ स्कान्दे।
३ जवाभेदे स्त्री ङीष्।
४ वासकवृक्षे च राजनि॰। पचि--विस्तारे अच् तादृशंमुखमस्य।
५ सिंहे पुंस्त्री॰ स्त्रियां ङीष्। पञ्चवक्त्राद-योपि तेष्यर्थेषु।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमुख¦ m. (-खः)
1. A name of SI4VA.
2. A lion. E. पञ्च five, and मुख face.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमुख/ पञ्च--मुख mf( ई)n. 5-faced or 5-headed (also applied to प्रजा-पति) KaushUp.
पञ्चमुख/ पञ्च--मुख m. N. of शिवL.
पञ्चमुख/ पञ्च--मुख m. a lion L.
पञ्चमुख/ पञ्च--मुख m. an arrow with 5 points R.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a name of ब्रह्मा: for saying that, he saw the beginning of an effulgence of light in the form of a sthambha, which Mahesvara assumed; for not seeing it, Siva--Bhairava removed one of ब्रह्मा's faces; hence Caturmukha from that day onwards. Br. IV. ४०. ४८, ५६. [page२-275+ २९]