सामग्री पर जाएँ

पञ्चमुखः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चमुखः, पुं, (पञ्चं विस्तृतं मुखं यस्य सः ।) सिंहः । इति राजनिर्घण्टः ॥ (पञ्च मुखानि यस्य सः ।) शिवः । इति हेमचन्द्रः ॥ तस्य नामवर्णादि यथा, देवीपुराणे । “शिवस्तत्र स्थितः साक्षात् सर्व्वपापहरः शुभः । स तु पञ्चमुखः ख्यातो लोके सर्व्वार्थसाधकः । पञ्चब्रह्मात्मको यस्मात्तेन पञ्चमुखः स्मृतः ॥ पश्चिमे तु मुखे सद्यो वामदेवस्तथोत्तरे । पूर्ब्बे तत्पुरुषं विद्यादघोरञ्चापि दक्षिणे ॥ ईशानः पञ्चमो मध्ये सर्व्वेषामुपरि स्थितः । एते पञ्च मुखा वत्स ! पापघ्ना ग्रहनाशनाः ॥ सद्योजातं भवेच्छुक्लं वामदेवन्तु पीतकम् । रक्तस्तत्पुरुषो ज्ञेयोऽघोरः कृष्णः स एव च ॥ ईशानः पश्चिमस्तेषां सर्व्ववर्णसमन्वितः । कामदः कामरूपी स्यात् ज्ञानाधारः शिवात्मकः ॥ (रुद्राक्षविशेषः । अस्य धारणतः शुभं भवति ॥ पञ्च मुखानि यस्य इति विग्रहे वाच्यलिङ्गत्वम् । यथा, रामायणे । ५ । ४१ । २३ । “तस्य पञ्चायसांस्तीक्ष्णान् शितान् पञ्चमुखान् ततः । शिरस्युत्पलपत्राभान् दुर्धर्षः संन्यवेशयत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पञ्चमुखः&oldid=146111" इत्यस्माद् प्रतिप्राप्तम्