सामग्री पर जाएँ

पञ्चमूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चमूलम्, क्ली, (पञ्चप्रकारं पञ्चगुणितं वा मूलम् ।) स्वनामख्यातपाचनम् । तत् त्रिविधं वृहत् स्वल्पं तृणाख्यञ्च । आद्यं यथा, -- “विल्वश्योणाकगाम्भारीपाटला गणिकारिका । कफवातहरं श्रेष्ठं पञ्चमूलमिदं महत् ॥” द्वितीयं यथा, -- “शालपर्णी पृश्निपर्णी बृहतीद्वयगोक्षुरम् । वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥” तृतीयं यथा, -- “कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवः ।” इति चक्रपाणिदत्तः ॥ अपि च । “विल्वाग्निमन्थश्योणाककाश्मर्य्यः पाटला तथा । ज्ञेयं बृहत् पञ्चमूलं पञ्चमूलमिति स्मृतम् ॥ शरेक्षदर्भ काशानां नलस्य मूलमेव च । सौश्रुतञ्चारकञ्चैव तृणाख्यं पञ्चमूलकम् ॥” इति शब्दचन्द्रिका ॥ (पञ्चानां मूलानां समाहारः । इति विग्रहे मूलपञ्चकम् ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चमूल¦ न॰ पञ्चगुणितं मूलम् शा॰ त॰।

१ वैद्यकोक्ते विल्वादि-पञ्चकमूलेतच्च त्रिविधं लघुमहत्तृणाख्यभेदात् तत्र महत्
“श्रीफलः सर्वतीभद्रा पाटला गणिकारिका। स्येनाकःपञ्चभिश्चैतैः पञ्चमूलं महन्मतम्। पञ्चमूलं महत् तिक्तंकषायं कफवातनुत्। मधुरं श्वासकासघ्नसुष्णं लघ्वग्नि-दीपनम्” अथ लघुपञ्चमूलस्य लक्षणङ्गुणाश्च
“शाल-पर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका। गोक्षुरं पञ्च-भिश्चैतैः कनिष्ठं पञ्चमूलकम्। पञ्चमूलं लघु स्वादु बल्यंपित्तानिलापहम्। नात्युष्णं वृंहणं ग्राहि ज्वर-श्वासाश्मरीप्रणुत्” भावप्र॰
“विल्वाग्निमन्थश्योनाककाश्मर्य्यः पाटला तथा। ज्ञेयं वृहत् पञ्चमूलं पञ्चमूल-मिति स्मृतम्” मतान्तरम्।
“शरेक्षुदर्भकाशानां नलस्यमूलमेव च। सौश्रुतं चारकं चैव तृणाख्यं पञ्चमूलकम्” शब्दच॰। पञ्चमूलीत्यपि स्वल्पपञ्चमूलभेदे
“शालपर्णीपृश्निपर्णी वृहती कण्टकारिका। तथा गीक्षुरकञ्चैवपञ्चमूली कनीयसी” शब्दच॰। पञ्चानां मूलानांसमाहारः ङीप्।

२ मूलपञ्चके

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चमूल¦ n. (-लं) The assemblage of five roots, viz:--The Be4l, Premna longi- folia, Cassia, Gmelian arborea, and the Trumpet flower. f. (-ली) A similar aggregate of five roots, considered as the similar one, viz:--Hedysarum gangeticum, H. logopodioides, Solanum melon- gena, S. Jacquini, and Tribulus lanuginosus. E. पञ्च five, मूल a root; the fem. aff. has a deminutive import.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चमूल/ पञ्च--मूल m. N. of an attendant of दुर्गाKatha1s.

पञ्चमूल/ पञ्च--मूल nf( ई). (also लक)a class or group of 5 roots or plants with tuberous roots (according to Sus3r. there are 5 classes each containing 5 medicinal plant , viz. कनीयस्or अल्पम्or क्षुद्रकम्, महत्, वल्ली-संज्ञः[sc. गणः] , कण्टक-स्, and त्रिण-स्i.e. the smaller and the larger -clclasses , the creepers , the thorny plants and the 5 kinds of grass ; other groups are also enumerated) Sus3r. Bhpr. etc.

"https://sa.wiktionary.org/w/index.php?title=पञ्चमूल&oldid=408029" इत्यस्माद् प्रतिप्राप्तम्