पञ्चमूलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चमूलम्, क्ली, (पञ्चप्रकारं पञ्चगुणितं वा मूलम् ।) स्वनामख्यातपाचनम् । तत् त्रिविधं वृहत् स्वल्पं तृणाख्यञ्च । आद्यं यथा, -- “विल्वश्योणाकगाम्भारीपाटला गणिकारिका । कफवातहरं श्रेष्ठं पञ्चमूलमिदं महत् ॥” द्वितीयं यथा, -- “शालपर्णी पृश्निपर्णी बृहतीद्वयगोक्षुरम् । वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥” तृतीयं यथा, -- “कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवः ।” इति चक्रपाणिदत्तः ॥ अपि च । “विल्वाग्निमन्थश्योणाककाश्मर्य्यः पाटला तथा । ज्ञेयं बृहत् पञ्चमूलं पञ्चमूलमिति स्मृतम् ॥ शरेक्षदर्भ काशानां नलस्य मूलमेव च । सौश्रुतञ्चारकञ्चैव तृणाख्यं पञ्चमूलकम् ॥” इति शब्दचन्द्रिका ॥ (पञ्चानां मूलानां समाहारः । इति विग्रहे मूलपञ्चकम् ॥)

"https://sa.wiktionary.org/w/index.php?title=पञ्चमूलम्&oldid=146117" इत्यस्माद् प्रतिप्राप्तम्