सामग्री पर जाएँ

पञ्चरत्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चरत्नम्, क्ली, पञ्चानां रत्नानां समाहारः । (यद्बा पञ्चविधं पञ्चगुणितं वा रत्नम् ।) तद्यथा, कनकम् १ हीरकम् २ नीलमणिः ३ पद्मरागः ४ मुक्ता ५ । यथा, -- “कनकं हीरकं नीलं पद्मरागञ्च मौक्तिकम् । पञ्चरत्नमिदं प्रोक्तमृषिभिः पूर्ब्बदर्शिभिः ॥ रत्नानाञ्चाप्यभावे तु स्वर्णं कर्षार्द्धमेव वा । सुवर्णस्याप्यभावे तु आज्यं ज्ञेयं विचक्षणैः ॥” इति हेमाद्रिः ॥ कनकरजतप्रवालमौक्तिकराजपट्टात्मकमिति गौडाः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चरत्न¦ न॰ पञ्चगुणितं रत्नम्। पञ्चविधे

१ रत्नभेदे तच्चनानाविधम्
“नीलकं वज्रभं चेति पद्मरागश्च मौक्ति-कम्। प्रबालं चेति विज्ञेयं पञ्चरत्नं मनीषिभिः” विधा-नपा॰
“सूवर्णं रजतं मुक्ता राजावर्त्तं प्रवांलकम्। रत्नपञ्चकमाख्यातम्” हेमा॰ ब्र॰
“कनकं हीरकं नीलंपद्मरागश्च मौक्तिकम्। पञ्चरत्नमिदं प्रोक्तमृषिभिःपूर्वदर्शिभिः। अभावे सर्वरत्नानां हेम सर्वत्र योजयेत्” हेमा॰ दा॰। पञ्च रत्नानीव उपदेशकत्वात् यत्र।

२ नीतिगर्भकवितापञ्चके
“नागः पोतस्तथा वैद्यं क्षान्तिः शक्योयथाक्रमम्। पञ्चरत्नमिदं प्रोक्तं विदुषापि सुदुर्लभम्” काव्यसं॰। नाग इत्यादिना एकैकपद्यस्य आद्यपदेन सूचितकवितापञ्चकं च ग्राह्यम्। तानि च पद्यानि प्रागेवकाव्यसंग्रहे दृश्यानि।

३ पञ्चचूडदेवगृहभेदे न॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चरत्न¦ n. (-त्नं) A collection of five precious objects; viz:--Gold, a diamond, a pearl, a ruby, an amethyst. E. पञ्च and रत्न a gem. For particulars see Va4chaspatya.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चरत्न/ पञ्च--रत्न n. a collection of 5 jewels or precious things (viz. gold , diamond , sapphire , ruby , and pearl Hcat. ; or gold , silver , coral , pearl , and राग-पट्टL. )

पञ्चरत्न/ पञ्च--रत्न n. N. of sev. works.

पञ्चरत्न/ पञ्च--रत्न n. pl. the 5 gems or most admired episodes of the MBh. MW.

"https://sa.wiktionary.org/w/index.php?title=पञ्चरत्न&oldid=408077" इत्यस्माद् प्रतिप्राप्तम्