सामग्री पर जाएँ

पञ्चरात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चरात्रम्, क्ली, (पञ्चविधानि रात्राणि ज्ञानानि यत्र । समासे अच् ।) ग्रन्थविशेषः । यथा, -- “रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रञ्च प्रवदन्ति मनीषिणः ॥ प्रथमं सात्विकं ज्ञानं द्वितीयन्तु तदेव च । नैर्गुण्यञ्च तृतीयञ्च ज्ञानञ्च सर्व्वतः परम् ॥ चतुर्थञ्च राजसिकं भक्तस्त न्नाभिवाञ्छति । पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्छति ॥ ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बधाः ॥” तत् सप्तविधं यथा, -- “पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परम् । ब्राह्मं शैवञ्च कौमारं वाशिष्ठं कापिलं परम् ॥ गौतमीयं नारदीयमिदं सप्तविधं स्मृतम् ॥” इति नारदपञ्चरात्रे प्रथमरात्रम् ॥ अपि च । “पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्ब्बकम् । वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् । परं सनतकुमारीयं पञ्चरात्रञ्च पञ्चकम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः ॥ एतदतिरिक्तानिहयशीर्षपृथुध्रुवादिपञ्चरात्राणि- सन्ति ॥ (पञ्चानां रात्रीणां समाहारः ।) पञ्च निशाः । यथाह चक्रपाणिदत्तः । “त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा । लङ्घनं सन्निपातेषु कुर्य्यादाराग्यदर्शनात् ॥”

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चरात्र¦ न॰ पञ्चानां रात्रीणां समाहारः अच्समा॰। रात्रा-न्तत्वेऽपि संख्यापूर्वकत्वेन क्लीवता।

१ रात्रिपञ्चके पञ्चरात्राणि ज्ञानानि यत्र। नारदादिप्रणीते ज्ञानोपदेशके

२ ग्रन्थभेदे तन्निरुक्त्यादिकं ब्रह्मपु॰ जन्मखण्डे

१३

२ अ॰उक्तं यथा
“रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम्। तेनेदं रञ्चरात्रं च प्रवदन्ति मनीषिणः। प्रथमं सात्विकंज्ञानं द्वितीयन्तु तदेव च। नैर्गुण्यं च तृतीयं च ज्ञानं चसर्वतत्परम्। चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्छति। पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्छति। ज्ञानं पञ्च-विधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः” तच्च सप्तविधं यथा
“पञ्चरात्रं सप्तविधं ज्ञानिनां श्चानदं परम्। ब्राह्मंशैवं च कौसारं वाशिष्ठं कापिलं परम्। गौतमीयंनारदीयमिदं सप्तविधं स्मृतम्” इति नारदपञ्चरात्रेप्रथमरात्रम्।
“पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्वकम्। वाशिष्ठं नारदीयं च कापिलं गौतमीयकम्। परं सनत्कुमारीयं पञ्चरात्रं च पञ्चकम्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चरात्र/ पञ्च--रात्र m. a period of 5 days (nights) Kaus3. Mn. etc.

पञ्चरात्र/ पञ्च--रात्र mfn. ( त्र)lasting 5 days S3Br. MBh. (also त्रकPan5c. )

पञ्चरात्र/ पञ्च--रात्र m. N. of an अहीन(See. 1. अह्)which lasts 5 days Ta1n2d2Br. S3rS.

पञ्चरात्र/ पञ्च--रात्र m. N. of the sacred books of various वैष्णवsects (also pl. ) MBh. R. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

PAÑCARĀTRA : An āgama (a system of philosophy). (Chapter 218, Śānti Parva).


_______________________________
*2nd word in left half of page 553 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पञ्चरात्र&oldid=432141" इत्यस्माद् प्रतिप्राप्तम्