पञ्चरात्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चरात्रम्, क्ली, (पञ्चविधानि रात्राणि ज्ञानानि यत्र । समासे अच् ।) ग्रन्थविशेषः । यथा, -- “रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रञ्च प्रवदन्ति मनीषिणः ॥ प्रथमं सात्विकं ज्ञानं द्वितीयन्तु तदेव च । नैर्गुण्यञ्च तृतीयञ्च ज्ञानञ्च सर्व्वतः परम् ॥ चतुर्थञ्च राजसिकं भक्तस्त न्नाभिवाञ्छति । पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्छति ॥ ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बधाः ॥” तत् सप्तविधं यथा, -- “पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परम् । ब्राह्मं शैवञ्च कौमारं वाशिष्ठं कापिलं परम् ॥ गौतमीयं नारदीयमिदं सप्तविधं स्मृतम् ॥” इति नारदपञ्चरात्रे प्रथमरात्रम् ॥ अपि च । “पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्ब्बकम् । वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् । परं सनतकुमारीयं पञ्चरात्रञ्च पञ्चकम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः ॥ एतदतिरिक्तानिहयशीर्षपृथुध्रुवादिपञ्चरात्राणि- सन्ति ॥ (पञ्चानां रात्रीणां समाहारः ।) पञ्च निशाः । यथाह चक्रपाणिदत्तः । “त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा । लङ्घनं सन्निपातेषु कुर्य्यादाराग्यदर्शनात् ॥”
