पञ्चलाङ्गलक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चलाङ्गलकम्, क्ली, (मुक्तादिविभूषितदशवृष- युक्तानि सारदारुनिर्म्मितानि पञ्च लाङ्गलकानि यस्मिन् ।) महादानभेदः । यथा, -- “अथातः संप्रवक्ष्यामि महादानमनुत्तम् । पञ्चलाङ्गलकं नाम महापातकनाशनमम् ॥ पुण्यां तिथिं समासाद्य युगादिग्रहणादिकम् । भूमिदानं ततो दद्यात् पञ्चलाङ्गलकान्वितम् ॥ कर्व्वटं खेटकञ्चापि ग्रामं वा शस्यशालिनम् । निवर्त्तनशतं वापि तदर्द्ध्वं वापि शक्तितः ॥ सारदारुमयान् कृत्वा हलान् पञ्च विचक्षणः । सर्व्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान् ॥ वृषलक्षणसंयुक्तान् दशैव तु धुरन्धरान् । सुवर्णशृङ्गाभरणान् मुक्तालाङ्गूलभूषितान् ॥ रौप्यपादाग्रतिलकान्रक्तकौशेयभूषणान् । स्रग्दामचन्दनयुतान् शालायामधिवासयेत् ॥ पर्ज्जन्यादित्यरुद्रेभ्यः पायसं निर्व्वपेत् चरुम् । एकस्मिन्नेव कुण्डे तु गुरुर्यस्मिन्निवेदयेत् ॥ पालाशाः समिधस्तद्वदाज्यं कृष्णतिलांस्तथा । तुलापुरुषवत् कुर्य्यात् लोकेशावाहनं बुधः ॥ ततो मङ्गलशब्देन युक्तमाल्याम्बरो बुधः । आहूय द्विजदाम्पत्यं हेमसूत्राङ्गरीयकैः ॥ कौशेयवस्त्रकटकैर्मणिभिश्चापि पूजयेत् । शय्यां सोपस्करां तद्बद्धेनुमेकां पयस्विनीम् ॥ तथाष्टादश धान्यानि समन्तादधिवासयेत् । ततः प्रदक्षिणं कृत्वा गृहीतकुसुमाञ्जलिः ॥ इममुच्चारयेन्मन्त्रमथ सर्व्वं निवेदयेत् । यस्माद्देवगणाः सर्व्वे स्थावराणि चराणि च ॥ धुरन्धराङ्गे तिष्ठन्ति तस्माद्भक्तिः शिवेऽस्तु मे । यस्माच्च भूमिदानस्य कलां नार्हन्ति षोडशीम् ॥ दानान्यन्यानि मे भक्तिर्धर्म्म एव दृढा भवेत् । दण्डन सप्तहस्तेन त्रिंशद्दण्डान्निवर्त्तनम् ॥ त्रिभागहीनं गोचर्म्ममानमाह प्रजापतिः । मानेनानेन यो दद्यात् निवर्त्तनशतं बुधः ॥ विधिनानेन तस्याशु क्षीयते पापसंहतिः । तदर्द्धमथवा दद्यादपि गोचर्म्ममात्रकम् । भवनस्थानमात्रं वा सोऽपि पापैः प्रमुच्यते ॥ यावन्ति लाङ्गलकमार्गमुखानि भूमे- स्तासां पतिर्दुहितुरङ्गजरोमकाणि । तावन्ति शङ्करपुरे वर्षाणि तिष्ठे- द्भूमिप्रदानमथ यः कुरुते मनुष्यः ॥ गन्धर्व्वकिन्नरसुरासुरसिद्धसंघै- राधूतचामरमुपेत्य महाद्बमानम् । सम्पूज्यते पितृपितामहबन्धुयुक्तः शम्भोः पुरं व्रजति चामरनायकः सन् ॥ इन्द्रत्वमप्यधिगतं क्षयमभ्युपैति गोभूमिलाङ्गलधुरन्धरसंप्रदानात् । तस्मादघौघपटलक्षयकारिभूमे- र्द्दानं विधेयमिति भूतिभवाभवाय ॥” इति मात्स्ये २५७ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चलाङ्गलक¦ न॰ महादानभेदे तत्स्वरूपं मत्स्यपु॰ यथा
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। पञ्चलाङ्ग-लकं नाम महापातकनाशनम्। पुण्यां तिथिं समा-साद्य युगादिग्रहणादिकम्। भूसिदानं ततो दद्यात्पञ्चलाङ्गलकान्वितम्। कर्वटं खेटकं वापि ग्रामं वाशस्यशालिनम्। निवर्त्तनशतं वापि तदर्द्धं वापिशक्तितः। सारदारुमयान् कृत्वा हलान् पञ्च विच-क्षणः। सर्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान्। कुर्य्यात् पञ्चषलादूर्ड्घनासहस्रपलायधि। दृषान् लक्ष-खसंयुक्तान् दश चैव घुरन्धरान्। सुवर्णशृङ्गा-भरणान् मुक्तालाङ्गूलभूषणान्। रूश्रपादाग्रतिलकान्रक्तकौषेयभूषणान्। स्रग्दागचन्दबयुतान् शालाया-मधिवासयेत्” इतःषरं तत्राध्याये
२८
३ अ॰ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चलाङ्गलक¦ n. (-कं) Gift of land to the extent requiring five ploughs. E. पञ्च, लाङ्गल a plough, कन् aff.
