सामग्री पर जाएँ

पञ्चवक्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चवक्त्रः, पुं, (पञ्च वक्त्राणि यस्य ।) शिवः । (“विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥” इति शिवध्यानम् ॥) अस्य मन्त्रा यथा, -- “समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः । ॠनॄकशून्याः सार्द्धचन्द्रा उपान्ते नाभिसंहिताः ॥ एभिः पञ्चाक्षरैर्म्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् । क्रमात् सम्मदसन्दोहमादगौरवसंज्ञकाः ॥ प्रासादन्तु भवेत् शेषं पञ्चमन्त्राः प्रकीर्त्तिताः । एकैकेन तथैवैकं वक्त्रं मन्त्रेण पूजयेत् ॥ एकं समुदितं कृत्वा पञ्चभिर्व्वा प्रपूजयेत् । प्रासादेनाथवा पञ्चवक्त्रं देवं प्रपूजयेत् ॥ सम्मदादिषु मन्त्रेषु प्रासादन्तु प्रशस्यते । शम्भोः प्रसादनेनैव यस्मादवृत्तस्तु मन्त्रकः ॥ तेन प्रासादसंज्ञोऽयं कथ्यते मुनिपुङ्गवैः । तस्मात् सर्व्वेषु मन्त्रेषु प्रासादः प्रीतिदः प्रभोः ॥ आमोदकारकः शम्भोर्म्मन्त्रः सम्मद उच्यते । मनःप्रपूरणश्चापि सन्दोहः परिकीर्त्तितः ॥ आकर्षको भवेन्मादो गुरुत्वाद्गौरवाह्वयः । एतद्व्यस्तं समस्तञ्च मन्त्रं शम्भोः प्रकीर्त्तितम् ॥ पञ्चाक्षरञ्च यन्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् । स्वयन्तेनैव मन्त्रेण आराधयतमीश्वरम् ॥ * ॥ ध्यानञ्च शृणु वक्ष्यामि सम्यग्वेतालभरवौ । पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥ चारुचन्द्रकलायुक्तं मूर्द्ध्नि व्यालौघसंगतम् । बाहुभिर्द्दशभिर्युक्तं व्याघ्रचर्म्मास्वराम्बरम् ॥ कालकूटधरं कण्ठे नागहारोपशाभितम् । कोटीरबन्धनं बाहुभूषणञ्च भुजङ्गमाः ॥ विभूतिं सर्व्वगात्रेषु ज्योत्स्नार्पितस्वरोचिषम् । भूतिसंलिप्तसर्व्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः ॥ नेत्रैस्तु पञ्चदशभिर्ज्योतिष्मद्भिर्विभूषितम् । वृषभोपरि संस्थन्तु गजकृत्तिपरिच्छदम् ॥ सद्योजातं वामदेवमघोरञ्च ततः परम् । तत्पुरुषं यथेशानं पञ्चवक्त्रं प्रकीर्त्तितम् ॥ सद्योजातं भवेद्बक्त्रं शुद्धस्फटिकसन्निभम् । पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥ नीलवर्णमघोरन्तु दंष्ट्राभीतिविवर्द्धनम् । रक्तं तत्पुरुषं देवं दिव्यमूर्त्तिं मनोहरम् ॥ श्यामलञ्च तथेशानं सर्व्वदैव शिवात्मकम् । चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयञ्च तथोत्तरे ॥ अघोरं दक्षिणे देवं पूर्ब्बे तत्पुरुषन्तथा । ईशानं मध्यतो ध्येयं चिन्तयेद्भक्तितत्परः ॥ शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् । दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः शृणु ॥ अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् । अष्टैश्वर्य्यसमायुक्तं ध्यायेत्तु हृद्गतं शिवम् ॥” इति कालिकापुराणे ५० अध्यायः ॥ * ॥ पञ्चमुखरुद्राक्षः । यथा स्कान्द्रे, -- “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अगम्यागमनाच्चैव अभक्ष्यस्य च भक्षणात् । मुच्यते सर्ब्बपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥” इति तिथितत्त्वम् ॥ (पञ्चं विस्तृतं वक्त्रं वदनं यस्य । इति विग्रहे । सिंहः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चवक्त्र¦ पु॰ पञ्च वक्त्राण्यस्य।

१ महादेवे

२ रुद्राक्षभेदे चपञ्चमुखशब्दे दृश्यम्। पञ्चवदनादयोऽप्यत्र

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चवक्त्र¦ m. (-क्त्रा)
1. SIVA.
2. A lion. E. पञ्च five, and वक्त्र a face.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चवक्त्र/ पञ्च--वक्त्र mfn. 5-faced Hariv. R.

पञ्चवक्त्र/ पञ्च--वक्त्र m. N. of शिवDhu1rtas.

पञ्चवक्त्र/ पञ्च--वक्त्र m. of one of the attendants of स्कन्दMBh.

पञ्चवक्त्र/ पञ्च--वक्त्र m. a lion L.

"https://sa.wiktionary.org/w/index.php?title=पञ्चवक्त्र&oldid=408262" इत्यस्माद् प्रतिप्राप्तम्