पञ्चवल्कलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चवल्कलम्, क्ली, (पञ्चानां वल्कलानां समा- हारः ।) वल्कलपञ्चकम् । यथा, -- “न्यग्रोधोडुम्बराश्वत्थप्लक्षवेतसवल्कलैः । सर्व्वैरेकत्र संयुक्तैः पञ्चवल्कलमुच्यते ॥” अपि च । “न्यग्रोधोडुम्बराश्वत्थप्लक्षपिप्पलपीतनाः । क्षीरिवृक्षाश्च पञ्चैषां वल्कलं पञ्चवल्कलम् ॥” इति शब्दचन्द्रिका ॥ अस्य गुणाः । “पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक् पञ्चलक्षणम् । त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित् ॥” इति राजनिर्घण्टः ॥
