सामग्री पर जाएँ

पञ्चवाणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चवाणः, पुं, (पञ्च वाणाः शरा यस्य सः ।) कामदेवः । इति हेमचन्द्रः ॥ पञ्चानां वाणानां समाहारे क्ली । (कामस्य पञ्च वाणा यथा, -- “द्रवणं शोषणं वाणं तापनं मोहनाभिधम् । उन्मादनञ्च कामस्य वाणाः पञ्च प्रकीर्त्तिताः ॥” पञ्चपुष्पवाणा यथा, -- “अरविन्दमशोकञ्च चूतञ्च नवमल्लिका । नीलोत्पलञ्च पञ्चैते पञ्चवाणस्य सायकाः ॥”) पञ्चवाणविशिष्टे त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चवाणः&oldid=146146" इत्यस्माद् प्रतिप्राप्तम्