सामग्री पर जाएँ

पञ्चशरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चशरः, पुं, (पञ्च शरा यस्य सः ।) कन्दर्पः । इत्यमरः । १ । १ । २६ ॥ अस्य पञ्च शराणि यथा, ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३२ अध्याये । “सम्मोहनं समुद्वेगबीजं स्तम्भनकारणम् । उन्मत्तबीजं ज्वलनं शश्वच्चेतनहारकम् ॥” अपि च । “सम्मोहनोन्मादनौ च शोषणस्तापनस्तथा । स्तम्भनश्चेति कामस्य पञ्च वाणाः प्रकीर्त्तिताः ॥” पञ्च इन्द्रियार्थाः शरा अस्येत्यन्ये । इति भरतः ॥ (यथा, कुमारे । ७ । ९२ । “शापावसाने प्रतिपन्नमूर्त्ते- र्ययाचिरे पञ्चशरस्य सेवाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पञ्चशरः&oldid=146148" इत्यस्माद् प्रतिप्राप्तम्