सामग्री पर जाएँ

पञ्चामराः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चामराः, स्त्री, (पञ्च अमराः । संज्ञात्वात्कर्म्म- धारयः ।) पञ्चप्रकारामरलतादि । यथा, -- “एका तु अमरा दूर्व्वा तस्या ग्रन्थिं समानयेत् । अन्या तु विजया देवी सिद्धिरूपा सरस्वती ॥ अन्या तु विल्वपत्रस्था शिवसन्तोषकारिणी । अन्या तु योगसिद्ध्यर्थे निर्गुण्डी चामरा लता ॥ अन्या तु कालतुलसी श्रीविष्णोः प्रियतोषिणी । एताः पञ्चामरा ज्ञेया योगसाधनकर्म्मणि ॥” इति रुद्रयामलोत्तरखण्डे ३६ पटलः ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चामराः&oldid=146184" इत्यस्माद् प्रतिप्राप्तम्