सामग्री पर जाएँ

पञ्चाम्नाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाम्नायः, पुं, (पञ्चसंख्यकः आम्नायः ।) शिवस्य पञ्चवक्त्रविनिर्गतस्तन्त्रशास्त्रविशेषः । यथा, -- “पूर्ब्बाम्नायः पूर्ब्बमुखः पश्चिमः पश्चिमामुखः । दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरः परः ॥ निरुत्तरं तथा चोर्द्ध्वं सिद्धान्तागमरूपिणम् । ऊर्द्ध्वाम्नायपरिज्ञानं नाल्पस्य तपसः फलम् ॥” अन्यत्र । “पूर्ब्बाम्नायः शब्दरूपो दक्षिणः कर्णरूपकः । पश्चिमः प्रश्नरूपः स्यादुत्तरश्चोत्तरस्तथा ॥ ऊर्द्ध्वाम्नायस्तत्त्वबोधः केवलानुभवात्मकः ॥” इत्यादि । इति भैरवतन्त्रम् ॥ मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गता ।” इति कुलार्णवतन्त्रम् ॥ * ॥ “विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि । सद्योजातं वामदेवमघोरस्य ततः परम् ॥ तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्त्तितम् ॥ सद्योजातस्य वै शुक्लं शुद्धस्फटिकसन्निभम् । पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥ कृष्णवर्णमघोरस्य समं भीमविवर्द्धनम् । रक्तं तत्पुरुषं देवि ! दिव्यमूर्त्ति मनोहरम् ॥ श्यामलस्य तथेशानं सर्व्वदेवशिवात्मकम् । चिन्तयेत् पश्चिमे चाद्यं द्वितीयस्य तथोत्तरे ॥ अघोरं दक्षिणे देवं पूर्ब्बे तत्पुरुषं तथा । ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः ॥” इति निर्व्वाणतन्त्रे ६ पटलः ॥ * ॥ अन्यत् षडाम्नायशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाम्नाय¦ पु॰ संज्ञात्वात् कर्म॰। शिवेन पञ्चभिर्वक्तैरुक्तेषुआम्नयतुल्यशास्त्रेषु यथोक्तं
“पूर्वाम्नायः पूर्वमुखः प्रश्चिमःपश्चिमामुखः। दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरःपरः। निरुत्तरं तथा चोर्द्ध्वं सिद्धान्तागमरूपिणम्। ऊर्द्ध्वाम्लायपरिज्ञानं नाल्पस्य तपसः फलम्” इति
“पूर्या-म्नायः शब्दरूपो दक्षिणः कर्णरूपकः। पश्चिमः प्रश्न-रूपः स्यादुत्तरं चोत्तरस्तथा। ऊर्द्ध्वाम्नायस्तत्त्वबोधः के-वलानुभवात्मकः” इति भैरवतन्त्रम्
“शिवपञ्चमुखेभ्यश्चपञ्चाम्नायाः समुद्गताः” इत्यादि कुलार्णवतन्त्रम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाम्नाय¦ m. plu. (-याः) Five Sha4stras supposed to have proceeded from the five mouths of SI4VA, constituting the basis of the Tantra ritual. E. पञ्च, and आम्नाय a scripture.

"https://sa.wiktionary.org/w/index.php?title=पञ्चाम्नाय&oldid=409129" इत्यस्माद् प्रतिप्राप्तम्