सामग्री पर जाएँ

पञ्चाम्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाम्रम्, क्ली, (अमन्ति रसानि प्राप्नुवन्तीति । अम- गत्यादिषु + “अमितम्योर्दीर्धश्च ।” उणां २ । १६ । इति रक् दीर्घश्चोपधायाः इति आम्रा वृक्षाः । पञ्चानां आम्राणामश्वत्थादिवृक्षाणां समाहारः ।) वृक्षविशेषाणां समाहारः । यथा, -- “अश्वत्थमेकं पिचुमर्द्दमेकं न्यग्रोधमेकं दश पुष्पजातीः । द्वे द्वे तथा दाडिममातुलङ्गे पञ्चाम्रवापी नरकं न याति ॥” इति वराहपुराम् ॥ अपि च । “अश्वत्थ एकः पिचुमर्द्द एको द्वौ चम्पकौ त्रीणि च केशराणि । स्रप्ताथ ताला नव नारिकेलाः पञ्चाम्ररोपी नरकं न याति ॥” इति तिथितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चाम्रम्&oldid=146192" इत्यस्माद् प्रतिप्राप्तम्