पञ्चालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चालः, पुं (पचिविस्तारवचने + “तमिविशिविड्यि- मृणिकुलीति ।” उणां १ । ११७ । इति कालन् ।) देशविशेषः । इत्युणादिकोषः ॥ तस्य व्युत्पत्ति- र्यथा । “हर्य्यश्वान्मुद्गलसृञ्जयबृहदिषुयवीनर- काम्पिल्वसंज्ञाः । पञ्चानामेतेषां विषयाणां रक्ष- णायालमेते मत्पुत्त्रा इति पित्राभिहिता इति पञ्चालाः ।” इति विष्णुपुराणे ४ अंशे १९ अध्यायः ॥ (अस्य स्थितिनिर्णय उक्तस्तन्त्रशास्त्रे यथा, -- “कुरुक्षेत्रात् पश्चिमेषु तथाचोत्तरभागतः । इन्द्रप्रस्थान्महेशानि ! दशयोजनकद्वये । पञ्चालदेशो देवेशि ! सौन्दर्य्यगर्व्वभूषितः ॥”)
