पञ्चीकरणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चीकरणम्, क्ली, पञ्चभूतानां भागविशेषेण मिश्री- करणम् । यथा । “पञ्चीकरणन्तु आकाशादि- पञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु मध्ये प्राथमिकान् पञ्चभागान् प्रत्येकं चतुर्द्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्वितीयार्द्धभागं परित्यज्य भागान्तरेषु संयोजनम् । तदुक्तम् । द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥ इति ॥ अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रुतेः पञ्चीकरणस्याप्युपलक्षणार्थत्वात् । पञ्चानां पञ्चा- त्मकत्वे समानेऽपि तेषु च वैशिष्ट्यात्तु तद्बादस्त- द्वाद इति न्यायेन आकाशादिव्यपदेशः सम्भवति । तदानीमाकाशे शब्दोऽभिव्यज्यते । वायौ शब्द- स्पर्शौ । अग्नौ शब्दस्पर्शरूपाणि । अप्सु शब्द- स्पर्शरूपरसाः । पृथिव्यां शब्दस्पर्शरूपरस- गन्धाश्च । एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यः भूर्भुवः स्वर्म्महर्जनस्तपः सत्यमित्येतन्नामकानामु- पर्य्युपरि विद्यमानानां अतलवितलसुतलरसा- तलतलातलमहातलपातालनामकानां अधोऽधो विद्यमानानां लोकानां ब्रह्माण्डस्य तदन्तर्गत- चतुर्व्विधस्थूलशरीराणामन्नपानादीनाञ्चोत्पत्ति- र्भवति ॥” इति वेदान्तसारः । ३९-४२ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चीकरणम् [pañcīkaraṇam], A philosophical term meaning the action by which anything is constituted of the five elements; (1/2 of one and 1/8 of other four elements) द्विधा द्विधा चेकैकं चतुर्धा पञ्चमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥ Vedāntasāra 39.42.
