पटुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पटुः, पुं, (पाटयतीति । पट् + णिच् + “फलि- पाटीति ।” उणां । १ । १९ । इति उः पटा- देशश्च ।) पटोलः । इत्यमरः । २ । ४ । १५५ ॥ पटोलपत्रम् । इति विश्वः ॥ काण्डीरलता । कारवेल्लः । चोरकः । इति राजनिर्घण्टः ॥
पटुः, त्रि, (पाटयतीति । पट गतौ । ण्यन्तः । “फलिपाटीति ।” उणां । १ । १९ । इति उः पटा- देशश्च ।) दक्षः । (यथा, रघुः । ९ । ४६ । “अनुभवन् नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जडतामबलाजनः ॥”) नीरोगः । चतुरः । इति मेदिनी ॥ (मधुरः । यथा, रघुः । ९ । ७३ । “कुम्भपूरणभवः पटुरुच्चै- रुच्चचार निनदोऽम्भसि तस्याः ॥”) तीक्ष्णः । स्फुटः । इति हेमचन्द्रः ॥ निष्ठुरः । इति जटाधरः ॥ धूर्त्तः । इति त्रिकाण्डशेषः ॥
