पटोलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पटोलः, पुं, (पटति बहुगुणान् प्राप्नोतीति । पट- गतौ + “कपिगडिगण्डीति ।” उणां १ । ६७ । इति ओलच् ।) स्वनामप्रसिद्धलतिकाफलम् । पलवल् इति हिन्दी भाषा ॥ (यथा, पञ्चतन्त्रे १ । ४०९ । “साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽथः पटोलेन ॥”) तत्पर्य्यायः । कुलकम् २ तिक्तकः ३ पटुः ४ । इत्यमरः । २ । ४ । १५५ ॥ कर्कशदलः ५ कुलजः ६ वाजिमान् ७ लताफलः ८ राजफलः ९ वर- तिक्तः १० अमृताफलः ११ । इति रत्नमाला ॥ कटुफलः १२ कटुकः १३ कर्कशच्छदः १४ राज- नामा १५ अमृतफलः १६ पाण्डुः १७ पाण्डु- फलः १८ बीजगर्भः १९ नागफलः २० कुष्ठारिः २१ कासमर्द्दनः २२ पञ्जरः २३ आजीफलः २४ ज्योत्स्नी २५ कच्छुघ्नी २६ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । सारकत्वम् । पित्तवलाशकफकण्डूतिकुष्ठासृग्ज्वरदाहार्त्ति- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पाचनत्वम् । हृद्यत्वम् । वृष्यत्वम् । लघुत्वम् । अग्निदीपनत्वम् । स्निग्धत्वम् । कासदोषत्रय- क्रिमिनाशित्वञ्च । तस्य मूलादिगुणाः । “पटोलस्य भवेन्मूलं विरेचनकरं सुखात् । नालं श्लेष्महरं पत्रं पित्तहारि फलं पुनः ॥ दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिका ॥” इति भावप्रकाशः ॥ अपि च राजवल्लभः । “पटोलं कफपित्तासृग्ज्वरकुष्ठव्रणापहम् । विसर्पनयनव्याधित्रिदोषगरनाशिनौ । पटोलफलकञ्चेति किञ्चिद्गुणान्तरावुभौ ॥”
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पटोलः [paṭōlḥ], A species of cucumber (Mar. प़डवळ); साम- साध्येषु कार्येषु यो दण्डं योजयेद् बुधः । स पित्ते शर्कराशाम्ये पटोलं कटुकं पिबेत् ॥ Pt.3.132; also पटुक. -लम् A kind of cloth.
