पट्टः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पट्टः, पुं, (पट् + क्तः । नेट् ।) पेषणपाषाणः । शिल् इति भाषा ॥ (यथा, रघुः । १८ । १७ । “तस्याभवत् सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ॥”) व्रणादीनां बन्धनम् । पटी इति भाषा ॥ चतु- ष्पथः । चौमाता रास्ता इति भाषा ॥ राजादि- शासनान्तरम् । पाट्टा इति भाषा ॥ (यथा, मार्कण्डेये । ३६ । ८ । “तदास्मात् पुत्त्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् । वाच्यन्ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम् ॥”) पीठः । इति मेदिनी ॥ पिडि इति भाषा ॥ फलकः । इति त्रिकाण्डशेषः ॥ ढाल इति भाषा ॥ उष्णीषादिः । इति स्वामी ॥ पाग् इत्यादि भाषा ॥ उत्तरीयादिः । इति सुभूतिः ॥ एक पाट्टा इति भाषा ॥ (यथा, भट्टिः । १० । ६० । “गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लपट्टचीनम् ॥”) कौषेयः । इति मुकुटः ॥ पाट् रेशम् इति च भाषा । लोहितकौषेयमुष्णीषादि । इति भरतः ॥ राङ्गा रेशमी पाग् इत्यादि भाषा ॥ (नृपादीनां किरीटविशेषस्वरूपपट्टलक्षणं बृहत्- संहितायां ४९ अध्याये उक्तम् । तद्यथा, -- “विस्तरशो निर्द्दिष्टं पट्टानां लक्षणं यदाचार्य्यैः । तत् संक्षेपः क्रियते मयात्र सकलार्थसम्पन्नः ॥ पट्टः शुभदो राज्ञां मध्येऽष्टावङ्गुलानि विस्तीर्णः । सप्तनरेन्द्रमहिष्याः षड्युवराजस्य निर्द्दिष्टः ॥ चतुरङ्गलविस्तारः पट्टः सेनापतेर्भवति मध्ये । द्वे च प्रसादपट्टः पञ्च ते कीर्त्तिताः पट्टाः ॥ सर्व्वे द्विगुणायामा मध्यादर्द्धेन पार्श्बविस्तीर्णाः । सर्व्वे च शुद्धकाञ्चनविनिर्म्मिताः श्रेयसो वृद्ध्यै ॥ पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजपार्थिव- महिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य । वृद्धिजयौ भूमिपतेस्तथा प्रजानाञ्च सुखसम्पत् ॥ जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः । मध्येस्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥ अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशे- द्राज्ञः । शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पट्टः [paṭṭḥ] ट्टम् [ṭṭam], ट्टम् 1 A slab, tablet (for writing upon), plate in general; शिलापट्टमधिशयाना Ś.3; so भालपट्ट &c.
A royal grant or edict; पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ Y.1.319.
A tiara, diadem; निर्वृत्तजाम्बूनदपट्टबन्धे न्यस्तं ललाटे तिलकं दधानः R.18.44; पट्टः शुभदो राज्ञां मध्ये$ष्टावङ्गुलानि विस्तीर्णः । सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः ॥ चतुरङ्गुलविरुतारः पट्टः सेनापतेर्भवति मध्ये । द्वे च प्रसादपट्टः पञ्चैते कीर्तिताः पट्टाः ॥ Bṛi. S.
A strip; निर्मोकपट्टाः फणिभिर्विमुक्ताः R.16.17;
Silk; पट्टोपधानम्; K.17; Bh.3.74; so पट्टांशुकम्.
Fine or coloured cloth, cloth in general.
An upper garment; गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लचीनपट्टम् Bk.1.61.
A fillet or cloth worn round the head, turban; especially, a coloured silk turban; भारः परं पट्टकिरीटजुष्ट- मप्युत्तमाङ्गं न नमेन्मुकुन्दम् Bhāg.2.3.21; त्रासार्ता ऋत्विजो$ धश्चपलगणहृतोष्णीषपट्टाः पतन्ति Ratn.1.4.
A throne.
A chair or stool.
A shield.
A grinding stone.
A place where four roads meet.
A city, town.
A bandage, ligature; बद्धेषु व्रणपट्टकेषु Ve. 5.1.
ट्टी An ornament for the forehead.
A horse's girth.
Comp. अंशुकः a silk cloth.
an upper or outer garment. -अभिषेकः the consecration of the tiara. -अर्हा the principal queen. -उपाध्यायः a writer of royal grants and other documents. -कर्मकरः a weaver. -जम् a sort of cloth. -देवी, -महिषी, -राज्ञी the principal queen.
बन्धः, बन्धनम् wearing dress.
binding the head with a crown or turban. -रागः sandal. -वस्त्र, -वासस् a. attired in woven silk or coloured cloth; जीर्णा कन्था ततः किं सितममलवरं पट्टवस्त्रं ततः किम् Bh.3.74. -शाला a tent. -सूत्रकारः a silk-weaver.
