सामग्री पर जाएँ

पणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पणः, पुं, (पण्यतेऽनेन । पण व्यवहारे + “नित्यं पणः परिणामे ।” ३ । ३ । ६६ । इति अप् ।) कार्षिकताम्रिकः । स तु पञ्चकृष्णलमाषकारब्ध- ताम्रकर्षकृतव्यवहारद्रव्यम् । पूर्ब्बं हि ताम्र- रक्तिकायाः कपर्द्दक एको मूल्यमिति अशीति- वराटमूल्यः । लोके तूपचारात् कार्षापणवत् पणव्यपदेशो मूल्य एव । निर्व्वेशः । भृतिः । (पणो ग्लहोऽस्त्यस्मिन् । पण + “अर्श आदिभ्यो ऽच् ।” ५ । २ । १२७ । इत्यच् ।) द्यूतम् । म्लहः । आड् इति होड् इति वाजि इति च भाषा । (यथा, आर्य्यासप्तशती । ३५४ । “प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथागुरुषु । पुरुषायितं पीणस्तद्बाले परिभाव्यतां दायः ॥” पण्यते व्यवह्रियते इति । “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) मूल्यम् । धनम् । इत्यमरभरतौ ॥ कार्षापणः । (यथा, मनुः । ८ । २२४ । “यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्य्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥”) क्रय्यशाकाट्टिका । व्यवहारः । इति मेदिनी ॥ विंशतिगण्डकः । इति हेमचन्द्रः ॥ शौण्डिकः । इति जटाधरः ॥ गृहम् । इति शब्दमाला ॥ (पणते अधिकारिभेदेन सुखभोगादिकं व्यव- हरति साधकस्य मुकृत्यनुसारेण वैकुण्ठवासादि- फलं प्रददातीत्थर्थः । पचाद्यच् । यद्वा, पण्यते स्त्रूयते यः । पण स्तुतौ “पुंसीति संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । विष्णुः । यथा, महाभारते । १३ । १४९ । ११५ । “ऊर्ड्घगः सत्पथाचारः प्राणदः प्रणवः पणः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पणः [paṇḥ], 1 Playing with dice or for a stake.

A game played for a stake, bet, wager; सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् Y.2.18; दमयन्त्याः पणः साधुर्वर्तताम् Mb.

The thing staked.

A condition, compact, agreement; संधिं करोतु भवतां नृपतिः पणेन Ve.1.15; 'a stipulation, treaty'; H.4.118,119.

Wages, hire.

Reward.

A sum in coins or shells.

A particular coin equal in value to 8 cowries; अशीतिभिर्वराटकैः पण इत्यभिधीयते; ततो$रिसैन्या- दानीतान् सौवर्णान् राजतान् पणान् Śiva B.23.3.

Price.

Wealth, property; आरोपणेन पणमप्रतिकार्यमार्यस्त्रैयम्बकस्य धनुषो यदि नाकरिष्यत् Mv.1.27.

A commodity for sale.

Business, transaction; निरस्य समयं सर्वे पणो$स्माकं भविष्यति Mb.3.7.9.

A shop.

A seller, vendor.

A distiller.

A house.

Expense of an expedition.

A handful of anything.

An epithet of Viṣṇu.-Comp. -अङ्गना, -स्त्री a prostitute, harlot; शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः Mk.8.33. -अयः Acquisition of profit; न चोपलेभे वणिजां पणायान् Bk.3.27. -अर्पणम् making an agreement, a contract. -कर्मन् n. A solemn contract; पणकर्मणा संहितान् अपसर्पान् Kau. A.1.14. -क्रिया Putting in a stake, contest for. -ग्रन्थिः a market, fair.

बन्धः making a treaty of peace (संधि); पणबन्धमुखान् गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् R.8.21;1.86.

an agreement, stipulation (यदि भवानिदं कुर्यात्तर्हीदमहं भवते दास्यामीति समयकरणं पणबन्धः Manoramā).

"https://sa.wiktionary.org/w/index.php?title=पणः&oldid=410603" इत्यस्माद् प्रतिप्राप्तम्