सामग्री पर जाएँ

पण्डितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पण्डितः, पुं, (पण्डा वेदोज्ज्वला तत्त्वविषयिणी वा बुद्धिः । सा जाता अस्य । “तदस्य संजातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् । यद्वा, पण्ड्यते तत्त्वज्ञानं प्राप्यतेऽस्मात् । गत्यर्थेति क्तः ।) शास्त्रज्ञः । अस्य लक्षणं यथा, -- (“निषेवते प्रशस्तानि निन्दितानि न सेवते । अ-नास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् ॥” इति चिन्तामणिः ॥) “पठकाः पाठकाश्चैव ये चान्य शास्त्रचिन्तकाः । सर्व्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥” इति महाभारते वनपर्व्व ॥ अपि च श्रीभगवद्गीतायाम् । ५ । १७ । “विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥” तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५ सुधीः ६ कोविदः ७ बुधः ८ धीरः ९ मनीषी १० ज्ञः ११ प्राज्ञः १२ संख्यावान् १३ कविः १४ घीमान् १५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूरदर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ । ५-६ ॥ विशारदः २३ । कवी २४ सूरी २५ । इति भरतः ॥ विदग्धः २६ दूरदृक् २७ वेदी २८ वृद्धः २९ बुद्धः ३० विधा- नगः ३१ प्रज्ञिलः ३२ कृस्निः ३३ । इति शब्दरत्नावली ॥ विज्ञः ३४ मेधावी ३५ । इति राजनिर्घण्टः ॥ सिह्लकः । इति मेदिनी ॥ (सर्व्वज्ञत्वात् महादेवः । यथा, महाभारते । १३ । १७ । १२४ । “न्यायनिर्व्वपणः पादः पण्डितो ह्यचलोपमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पण्डितः&oldid=146382" इत्यस्माद् प्रतिप्राप्तम्