सामग्री पर जाएँ

पण्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पण्यम्, त्रि, (पण्यते इति । पण ङ व्यवहारे स्तुतौ च । “अवद्यपण्यवर्य्यागर्ह्येति ।” ३ । १ । १०१ । निपातनात् साधु ।) पणितव्यम् । विक्रेय- द्रव्यम् । इत्यमरः । २ । ९ । ८२ । (यथा, हेः रामायणे । २ । ४८ । ४ । “न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् । न चाशोभन्त पण्यानि नापचन् गृहमेधिनः ॥”) व्यवहार्य्यम् । स्तोतव्यम् । इति पणधात्वर्थदर्श- नात् ॥ (क्ली, पण्यते व्यवह्रियतेऽत्र । पण + यत् । विपणिः । यथा, मनुः । ५ । १२९ । “नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ॥” “पण्ये पण्यवीथिकायाम् ।” इति कुल्लूकभट्टः ॥)

"https://sa.wiktionary.org/w/index.php?title=पण्यम्&oldid=146388" इत्यस्माद् प्रतिप्राप्तम्