पतगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतगः, पुं, (पत उत्पतितः सन् गच्छति । यद्बा पतेन पक्षेण गच्छतीति । गम् + डः ।) पक्षी । इत्यमरः । २ । ५ । ३३ ॥ (यथा, मनुः । ७ । २३ । “देवदानवगन्धर्व्वा रक्षांसि पतगोरगाः । तेपि भोगाय कल्पन्ते दण्डेणैव निपीडिताः ॥”)
