पतङ्गम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतङ्गम्, क्ली, (पत् ऌ गत्यैश्वर्य्ययोः । बाहुलकात् अङ्गच् ।) सुतम् । पारदम् । इति मेदिनी ॥ चन्दनभेदः । इति शब्दचन्द्रिका ॥
पतङ्गम्, क्ली, (पत्रमिव अङ्गं यस्य । पृषोदरात्- साधु ।) रक्तचन्दनम् । इति शब्दरत्नावली ॥ वृक्षविशेषः । वकम् इति भाषा । तत्पर्य्यायः । पत्राङ्गम् २ रक्तकाष्ठम् ३ सुरङ्गदम् ४ पत्रा- ण्यम् ५ पट्टरङ्गम् ६ भार्य्यावृक्षः ७ रक्तकः ८ लोहितम् ९ रङ्गकाष्ठम् १० रोगकाष्ठम् ११ कुचन्दनम् १२ पट्टरञ्जनकम् १३ सुरङ्गम् १४ । अस्य गुणाः । कटुत्वम् । रूक्षत्वम् । अम्लत्वम् । शीतत्वम् । गौल्यत्वम् । वातपित्तज्वरविष्फो- टोन्मादभूतनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च भावप्रकाशे । “पतङ्गन्तु रक्तसारं सुरङ्गं रञ्जनं तथा । पटरञ्जनमाख्यातं पत्तूरञ्च कुचन्दनम् ॥ पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् । हरिचन्दनवज्ज्ञेयं विशेषाद्दाहनाशनम् ॥”
