पतिः
संस्कृतम्
[सम्पाद्यताम्]- पतिः, नाथः, पारड्गतः, महापण्डितः, प्रभुः, अधिपतिः, अधीशः, गुरुः, ईशः, ईशानः, अध्यक्षः, आर्यः, भानुः, महोदयः, भर्तृः, नियोग्यः।
नाम
[सम्पाद्यताम्]- पतिः नाम प्रभुः, भर्तृः।
अनुवादाः
[सम्पाद्यताम्]उदाहरणानि
[सम्पाद्यताम्]- सीतापतिः रामः।
- अस्माकं भारतदेशे अब्दुल् कलाम् अध्यक्षः।
- अमेरिकादेशे ऒभाम अध्यक्षः।
कोशप्रामाण्यम्
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतिः, पुं, (पाति रक्षतीति । पा ल रक्षणे + डतिः ।) मूलम् । गतिः । इति विश्वः ॥ पाणिग्रहीता । भातार इति भाषा । तत्पर्य्यायः । धवः २ प्रियः ३ भर्त्ता ४ । इत्यमरः । २ । ६ । ३५ ॥ कान्तः ५ प्राणनाथः ६ गुरुः ७ हृदयेशः ८ जीवितेशः ९ जामाता १० सुखोत्सवः ११ नर्म्मकीलः १२ रतगुरुः १३ स्वामी १४ रमणः १५ । इति शब्दरत्नावली ॥ वरः १६ परिणेता १७ गृही १८ । इति राजनिर्घण्टः ॥ तस्य लक्ष- णम् । विधिवत्पाणिग्राहकः । अनुकूलदक्षिण- धृष्टशठभेदात् पतिश्चतुर्धा । सार्व्वकालिकपरा- ङ्गनापराङ्मुखत्वे सति सर्व्वकालमनुरक्तोऽनु- कूलः । १ । सकलनायिकाविषयसमसहजानु- रागो दक्षिणः । २ । भूयो निःशङ्कः कृतदोषो- ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणो धृष्टः । ३ । कामिनीविषयकपटपटुः शठः । ४ । इति रसमञ्जरी ॥ * ॥ पतिसेवादिफलं यथा, -- “कथं मे सुव्रते ! साध्वि ! निद्राभङ्गः कृतस्त्वया । व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ॥ तपश्चानशनञ्चैव व्रतं दानादिकञ्च यत् । भर्त्तुरप्रियकारिण्याः सर्व्वं भवति निष्फलम् ॥ यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया । पतिवताव्रतार्थञ्च पतिरूपी हरिः स्वयम् ॥ सर्व्वदानं सर्व्वयज्ञः सर्व्वतीर्थनिषेवणम् । सर्व्वं व्रतं तपः सर्व्वमुपवासादिकञ्च यत् ॥ सर्व्वधर्म्मञ्च सत्यञ्च सर्व्वदेवप्रपूजनम् । तत् सर्व्वं स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ॥ सुपुण्ये भारते वर्षे पतिसेवां करोति या । वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणः शतम् ॥ विप्रियं कुरुते भर्त्तुर्विप्रियं वदति प्रियम् । असत्कुलप्रजाता या तत्फलं श्रूयतां सति ! ॥ कुम्भीपाकं व्रजेत् सा च यावच्चन्द्रदिवाकरौ । पुत्त्रो वापि पिता वापि बान्धवो वा सहोदरः । योषितां कुलजातानां न कश्चित् स्वामिनः समः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ४४ अध्यायः ॥ * ॥ पतिदक्षिणादि यथा, -- “निरूपितश्च वेदेषु स्वशब्दो धनवाचकः । तद्यस्यास्तीति स स्वामी वेदज्ञ ! शृणु मद्बचः ॥ तस्य दाता सदा स्वामी न च स्वं स्वामिनो भवेत् । अहो व्यवस्था भवतां वेदज्ञानमबोधताम् ॥ धर्म्म उवाच । पत्नीं विना न स्वं साध्वि ! स्वामिनं दातुमक्षमम् । दम्पती ध्रुवमेकाङ्गौ तयोर्द्दाता च द्वौ समौ ॥ निरूपिता पुण्यके च व्रते स्वामी च दक्षिणा । श्रुतौ श्रुतो यः स्वधर्म्मो विपरीतो ह्यधर्म्मकः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ७ अध्यायः ॥
पतिः, त्रि, (पाति रक्षति पालयतीति वा । “पते- र्डतिः ।” उणां । ४ । ५७ । इति डतिः ।) अधिपतिः । तत्पर्य्यायः । स्वामी २ ईश्वरः ३ ईशिता ४ अधिभूः ५ नायकः ६ नेता ७ प्रभुः ८ परिवृढः ९ अधिपः १० । इत्यमरः । ३ । ११० । ११ ॥ (यथा, मनुः । ७ । ११५ । “ग्रामस्याधिपतिं कुर्य्यात् दशग्रामपतिं तथा । विंशतीशं शतेशञ्च सहस्रपतिमेव च ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतिः [patiḥ], [पा-डतिं]
A master, lord; as in गृहपतिः.
An owner, possessor, proprietor; क्षेत्रपतिः.
Governor, ruler, one who presides over; ओषधीपतिः, वनस्पतिः, कुलपतिः &c.
A husband; प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि Ku.4.33.
A root.
Going, motion, fight. -f.
A female possessor, a mistress.
A wife.
Comp. घातिनी, घ्नी a woman who murders her husband.
a line on the hand showing that a woman will be faithless to her husband. -देवता, -देवा one who regards her husband as a divinity, a woman loyally devoted to her husband, a chaste woman; कः पतिदेवतामन्यः परिमार्ष्टुमुत्सहते Ś.6; तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः R.9.17; धुरिस्थिता त्वं पतिदेवतानाम् 14.74. -धर्मः duty (of a wife) towards a husband.-प्राणा a chaste wife. -लङ्घनम् disregarding a former husband by marrying another; cf. Ms.5.151. -वेदनः N. of Śiva. (-नम्) procuring a husband (by magical means); धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् Av.2.36.2.-लोकः the world of husbands in a future life; पतिलोक- मभीप्सन्ती नाचरेत् किंचिदप्रियम् Ms.5.156. -व्रता a devoted, faithful and loyal wife, a chaste and virtuous wife; ˚त्वम् fidelity to a husband. -सेवा devotion to a husband; वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थो$ग्निपरिक्रिया ॥ Ms.2.67.
