पतिघ्नी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतिघ्नी, स्त्री, (पतिं हन्ति इति । “लक्षणे जाया- पत्योष्टक् ।” ३ । २ । ५२ । इति टक् ततो ङीप् ।) पतिनाशकहस्तरेखाविशेषः । यथा, “लक्षणे जायापतिभ्याम् । जायाघ्नो हस्तः । पतिघ्नी पाणि- रेखा ।” इति संक्षिप्तसारव्याकरणम् ॥ स्वामिहन्त्री । (विवाहात् प्राक् क्षेत्रादिमृत्पिण्डाष्टकस्य कुमार्य्यै परीक्षार्थं दाने तदा श्मशानजातमृत्पिण्डस्य ग्रहणे कुमार्य्यास्तस्याः पतिहननरूपफलं यथा, आश्वलायनगृह्यसूत्रे १ । ५ । ६ । “अष्टौ पिण्डान् कृत्वा पिण्डानभिमन्त्र्य कुमारीं ब्रूयात् एषामेकं गृहाणेति ।” इति नियोजिता कुमारी यदि श्मशानादाहृतां मृदं गृह्णाति तदा पतिघ्नीति तां विद्यात् ॥)
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतिघ्नी¦ f. (-घ्नी)
1. The murderess of her husband.
2. A line on the hand, indicating that a woman will be faithless or treacherous to her husband, E. पति and घ्न who kills, fem. aff. ङीप्।
