पत्रलेखा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पत्रलेखा, स्त्री, (पत्राणां कस्तूरिकादिरचितपत्रा- कृतीणां लेखा रचना ।) पत्रभङ्गः । इत्यमरः ॥ २ । ६ । १२२ ॥ (यथा, रघुः ६ । ७२ । “महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकलीलः । चकार वाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पत्रलेखा स्त्री।
कस्तूरिकादिना_कपोलादौ_रचिततिलकविशेषः
समानार्थक:पत्रलेखा,पत्राङ्गुलि
2।6।122।2।2
स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम्. अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु