सामग्री पर जाएँ

पत्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पत्री, [न्] पुं, (पत्रं पक्षो विद्यतेऽस्य । पत्र + इनिः ।) वाणः । (यथा, रघुः । ११ । ८४ । “शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्ज्जितम् ॥”) पक्षी । इत्यमरः । ३ । ३ । १०५ ॥ (यथा, रघुः ११ । २९ । “तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहिः ॥”) श्येनः । (यथा, नैषधे । १९ । १२ । “नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्रिणा- मिह विहरणैः श्यैनम्पातां रवेरवधारयन् ॥” “पत्रिणां श्येनाख्यपक्षिरूपाणाम् ।” इति तट्टी- कायां नारायणः ॥ पत्राणि च्छदानि सन्त्यस्य । अत इनिः ।) वृक्षः । रथी । पर्व्वतः । इति मेदिनी ॥ तालः । श्वेतकिणिही । गङ्गापत्री । पाची । इति राजनिर्घण्टः ॥ पत्रविशिष्टे, त्रि ॥

पत्री, स्त्री, (पत्र + स्त्रियां ङीप् ।) लिपिः । पत्रम् । यथा, जातके । “श्रीमत्पङ्कजिनीपतिः कुमुदिनीप्राणेश्वरो भूभवः शाशाङ्किः सुरराजवन्दितपदो दैत्येन्द्रमन्त्री शनिः । स्वर्भानुः शिखिनां गणो गणपतिर्ब्रह्मेशलक्ष्मीधरा- स्त्वां रक्षन्तु सदैव यस्य विमला पत्री मया लिख्यते ॥”

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पत्री¦ f. (-त्री) A wife. E. पति a husband, ङीप् aff. and नुक् augment.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पत्री [patrī], Writing.

"https://sa.wiktionary.org/w/index.php?title=पत्री&oldid=500780" इत्यस्माद् प्रतिप्राप्तम्