सामग्री पर जाएँ

पथ्यादिगुग्गुलु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पथ्यादिगुग्गुलुः, पुं, (पथ्या आदिर्यस्य तथाविघो गुग्गुलुः ।) औषधविशेषः । यथा, -- “पथ्या विभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् । प्रस्थेन युक्तञ्च पलङ्कषाणां द्रोणे जले संस्थितमेकरात्रम् ॥ अर्द्धावशेषं क्वथितं कषायं भाण्डे पचेत्तत् पुनरेव लोहे । अमूनि वह्नेरवतार्य्य दद्यात् द्रव्याणि संचूर्ण्य पलार्द्धकानि ॥ विडङ्गदन्तीत्रिफलागुडूची- कृष्णात्रिवृन्नागरकोषणानि । यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्वुपानानि च भोजनानि ॥ निषेव्यमानो विनिहन्ति रोगान् सगृध्रसीं नूतनखञ्जताञ्च । प्लीहानमुग्रं जठरार्त्तिगुल्मं पाण्डुत्वकण्डुत्वविवातरक्तम् ॥ पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः । बलेन नागेन समं मनुष्यं जवेन कुर्य्यात्तुरगेण तुल्यम् ॥ आयुःप्रकर्षं विदधाति चक्षु- र्ब्बलं तथा पुष्टिकरो विषघ्नः । क्षतस्य सन्धानकरो विशेषा- द्रोगेषु शस्तः सकलेषु तज्ज्ञैः ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पथ्यादिगुग्गुलु¦ पु॰ औषधिविशेषे यथा
“पथ्या विभीता-मलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम्। प्रस्थेनयुक्तञ्च पलंक्रमेण द्रोणे जले संस्थितमेकरात्रम्। अ-र्द्धावशेषं क्वथितं कषायं भाण्डे पचेत्तत् पुतरेव लोहे। अमूनि वह्नेरवतार्य्य दद्यात् द्रव्याणि संचूर्ण्य पला-र्द्धकानि। विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृन्नाग-रकोषणानि। यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाष्व-पानानि च गोजनानि। निषेव्यमाणी विनिहन्ति रो-गान् सगृध्रसीं नूतनखञ्जताञ्च। प्लीहानमुग्रं जौ-रार्त्तिगुल्मं पाण्डुत्वकण्डुत्वविवातरक्तम्। पथ्यादिकोगुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रमावः। बलेननागेन समं मनुष्यं जवेन कुर्य्यात्तुरगेण तुल्यम्। आयुः-प्रकर्षं विदधाति चक्षुर्बलं तथापुष्टिकरो विषघ्नः। क्षतम्यसन्धानकरो विशेषाद्रोगेषु शस्तः सकलेवु तजज्ञैः” मावप्र॰। [Page4224-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=पथ्यादिगुग्गुलु&oldid=412709" इत्यस्माद् प्रतिप्राप्तम्