सामग्री पर जाएँ

पथ्यापथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पथ्यापथ्यम्, क्ली, (पथ्यं रोगिणां हितकरं अपथ्यं अशुभकरं द्वयोः समाहारः ।) रोगाणां हिता- हितकारकद्रव्याणि । तत्र तरुणज्वरे पथ्यं यथा । वमनम् । लङ्घनम् । कालोऽष्टाहः । यवागुः । स्वेदनम् । कटुतिक्तरसौ । एतानि पाचनानि ॥ * ॥ नवज्वरे अपथ्यं यथा । स्नानम् । विरेकः । सुरतम् । कषायः । व्यायामः । अभ्यञ्जनम् । दिवानिद्रा । दुग्धम् । घृतम् । वैद- लम् । आमिषम् । तक्रम् । सुरा । स्वादुगुरुद्रष- द्रव्याणि । अन्नम् । प्रवातः । भ्रमणम् । कोपः ॥ * ॥ मध्यज्वरे पथ्यं यथा । पुरातनषष्टिकः । पुरातनशालिः । वार्त्ताकुः । शोभाञ्जनम् । कारवेल्लः । वेत्राग्रम् । आषाढ- फलम् । पटोलम् । कर्कोटकम् । मूलकपोतिका । मुद्गमसूरचणककुलत्थमुकुष्टकानां यूषः । पाठा । अमृता । वास्तूकम् । तण्डुलीयः । जीवन्ती । काकमाची । सुपक्वानि द्राक्षाकपित्थदाडिम- वैकङ्कतफलानि । लघूनि सात्म्यानि च भेष- जानि ॥ * ॥ अथ पुराणज्वरे पथ्यम् । विरेचनम् । छर्द्दनम् । अञ्जनम् । नस्यम् । धूमः । अनुवासनम् । सिराव्यधः । संशमनम् । प्रदेहः । अभ्यङ्गः । अवगाहः । शिशिरोपचारः । एणः । कुलिङ्गः । हरिणः । मयूरः । लावः । शशः । तित्तिरिः । कुक्कुटः । क्रौञ्चः । कुरङ्गः । पृषतः । चकोरः । कपिञ्जलः । वर्त्तकः । कालपुच्छः । गोक्षीरम् । अजाक्षीरम् । गोघृतम् । अजा- घृतम् । हरीतकी । पर्व्वतनिर्झराम्भः । एरण्ड- तलम् । सितचन्दनम् । ज्योत्स्ना । प्रिया- लिङ्गनम् ॥ * ॥ व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणं तथा । ज्वरमुक्तो न सेवेत यावन्नो बलवान् भवेत् ॥ * ॥ अथातिसाररोगे पथ्यम् । वमनम् । लङ्घनम् । निद्रा । पुराणाः शालि- षष्टिकाः । विलेपी । लाजमण्डः । मसूर- तुवरीशशैणलावहरिणकपिञ्जलभवयूषः । सर्व्वे क्षुद्रमत्स्याः । शृङ्गी । खुड्डीशः । मधुरा- लिका । तैलम् । छागघृतक्षीरे । गोदधितक्रे । गवाजयोर्दधिजं पयोजं वा नवनीतम् । नव- रम्भापुष्पम् । नवरम्भाफलम् । क्षौद्रम् । जम्वु- फलम् । भव्यम् । महार्द्रकम् । निम्बम् । शालु- कम् । विकङ्कतम् । कपित्थम् । वकुलम् । देवानां ब्राह्मणानाञ्च गुरूणामपि पूजनम् । ब्रह्मचर्य्यं तपो होमः प्रदानं नियमो जपः ॥ साधूनां दर्शनं सत्यं रत्नौषधिविधारणम् । मङ्गलाचरणञ्चेति वर्गः सर्व्वान् ज्वरान् जयेत् ॥” आगन्तुकज्वरे अपथ्यम् । “अधिवासनकर्म्माणि रक्तस्रग्वस्त्रर्धारणम् । वमिवेगं दन्तकाष्ठमसात्म्यमपि भोजनम् ॥ विरुद्धान्यन्नपानानि विदाहीनि गुरूणि च । दुष्टाम्वुक्षारमम्लांनि पत्रशाकं विरूढकम् ॥ नलदाम्बु च ताम्वूलं कलिङ्गं लकुचं फलम् । आडीमत्स्यञ्च पिण्याकं छत्त्राकं पिष्टवैकृतम् ॥ अभिष्यन्दीनि चैतानि ज्वरितः परिवर्ज्जयेत् ॥” इति पथ्यापथ्यविनिश्चयः समाप्तः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पथ्यापथ्य¦ n. (-थ्यं) The class of things that are considered beneficial or hurtful in disease. E. पथ्य, and अपथ्य improper.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पथ्यापथ्य/ पथ्या mfn. wholesome and unwholesome , beneficial or hurtful ( esp. in sickness) W.

पथ्यापथ्य/ पथ्या m. or n. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=पथ्यापथ्य&oldid=412712" इत्यस्माद् प्रतिप्राप्तम्