सामग्री पर जाएँ

पदन्यासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पदन्यासः, पुं, (पदस्य गोपदस्येव न्यासो यत्र ।) गोक्षुरः । रति शब्दचन्द्रिका ॥ पदस्य विन्यासः । यथा, रसमञ्जरी । “पदन्यासो गेहाट्वहिरहिफणारोहणसमः स्वगेहादन्यत् स्याद्भवनमपरद्बीपतुलितम् । वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ॥” (तन्त्रोक्तान्नपूर्णामन्त्रस्थपदानां तत्तदङ्गेषु न्यासः । यदुक्तं तन्त्रसारज्ञानार्णवे । “एकमेकं पुनश्चैकं पुनरेकं द्वयन्ततः । चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्व्वति ! ॥ पदान्येतानि देवेशि ! नवद्बारेषु विन्यसेत् । मूर्द्धादिगुह्यपर्य्यन्तं पुनस्तेषु वरानने ! ॥ गुह्यादिब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पदन्यासः&oldid=146576" इत्यस्माद् प्रतिप्राप्तम्