पदार्थः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पदार्थः, पुं, पदानां घटपटादीनां अर्थोऽभिधेयः । तत्पर्य्यायः । भावः २ धर्म्मः ३ तत्त्वम् ४ सत्त्वम् ५ वस्तु ६ । इति जटाधरः ॥ * ॥ (पदार्था हि दर्शनमतभेदेन नानाविधाः । तत्र वैशेषिकाणां मते ।) सप्त पदार्थाः । यथा, -- “द्रव्यं गुणास्तथा कर्म्म सामान्यं सविशेषकम् । समवायस्तथाभावः पदार्थाः सप्त कीर्त्तिताः ॥” “सप्तानामपि साधर्म्म्यं ज्ञेयत्वादिकमिष्यते । द्रव्यादयः पञ्च भावा अनेके समवायिनः ॥ सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रियः ॥” इति भाषापरिच्छेदे । २, १४ ॥ “एते पदार्था वैशेषिकप्रसिद्धाः । नैयायिकाना- मप्यविरुद्धाः ।” इति सिद्धान्तमुक्तावली ॥ गोत- मोक्तषोडशपदार्थास्तु न्यायशब्दे द्रष्टव्याः ॥ (कपिलमते प्रकृत्यादयः पञ्चविंशतिः । पातञ्जल- मते तु ईश्वरेण सह षड्विंशतिः । वेदान्तमते आत्मानात्मभेदात् द्विविधः । तत्र आत्मापि द्विविधः ईश्वरजीवाद्युपाधिभेदात् । एतावपि विद्याविद्याभेदेन द्विविधौ । केवलमविद्योप- हितत्वाद्भेदव्यवहारः । अनात्मापि कारण- सूक्ष्मस्थूलभेदात् त्रिविधः इति ॥)
