पद्मः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मः, पुं, (पद्यते इति । पद गतौ + “अर्त्तिस्तु स्विति ।” उणां । १ । १३९ । इति मन् ।) दाश- रथिः । नागविशेषः । इति धरणिः ॥ (यथा, महाभारते । २ । ९ । ८ । “कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥” पद्मोत्तरात्मजः । स तु द्बादशजिनचक्रवर्त्त्यन्त- र्गतचक्रवर्त्तिविशेषः । बलदेवः । इति हेमचन्द्रः । षोडशरतिबन्धान्तर्गतप्रथमबन्धः । यथा, -- “हस्ताभ्याञ्च समालिङ्ग्य नारी पद्मासनोपरि । रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः ॥” इति रतिमञ्जरी ॥
