पद्मकन्दः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मकन्दः, पुं, (पद्मस्य कन्दः ।) कमलकन्दः । तत्पर्य्यायः । शालूकम् २ पद्ममूलम् ३ कटा- ह्वयम् ४ शालुकम् ५ जलालूकम् ६ । अस्य गुणाः । कटुत्वम् । विष्टम्भित्वम् । रूक्षत्वम् । रुच्यत्वम् । कषायत्वम् । कफपित्तकाशतृष्णादाह- विनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पद्मादिकन्दः शालूकं करहाटश्च कथ्यते । मृणालमूलं भिष्माण्डं जलालूकञ्च कथ्यते ॥ शालूकं शीतलं वृष्यं पित्तदाहास्रनुद्गुरु । दुर्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम् ॥ संग्राहि मधुरं रूक्षं भिष्माण्डमपि तद्गुणम् ॥” इति भावप्रकाशः ॥
