सामग्री पर जाएँ

पद्मगर्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पद्मगर्भः, पुं, (पद्मं गर्भः कुक्षिरिव यस्य । विष्णु- नाभिकमलजातत्वात् तथात्वम् ।) ब्रह्मा । इति शब्दरत्नावली ॥ (पद्मस्य हृदयस्थपद्मस्य गर्भ आसनत्वेन कल्पितो यस्य उपासकैरितिशेषः । विष्णुः । यथा, महाभारते । १३ । १४९ । ५१ । “पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ॥” “पद्मस्य हृदयाख्यस्य मध्ये उपास्यत्वात् पद्मगर्भः ।” इति भाष्यम् ॥ शिवः । यथा, तत्रैव १३ । १७ । १३२ । “पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पद्मगर्भः&oldid=146628" इत्यस्माद् प्रतिप्राप्तम्