पद्मनाभः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मनाभः, पुं, (पद्मं नाभौ यस्य । “अच्प्रत्यन्वय पूर्ब्बात् सामलोम्नः ।” ५ । ४ । ७५ । इत्यत्र “अच्” इति योगविभागादच् । ब्रह्मोत्पत्ति- कारणीभूतपद्मस्य नाभिजातत्वादस्य तथात्वम् ।) विष्णुः । इत्यमरः । १ । १ । १० ॥ (यथा, महा- भारते । १३ । १४९ । १९ ॥ “अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ॥”) शयने तस्य स्मरणीयत्वं यथा, -- “औषये चिन्तयेद्विष्णुं भोजने च जनार्द्दनम् । शयने पद्मनाभञ्च विवाहे च प्रजापतिम् ॥” इत्यादि बृहन्नन्दिकेश्वरपुराणम् ॥ (हृदयपद्मस्यनाभौ नाभेरीषदुपरिभागे प्रकाश- नात् महादवः । यथा, महाभारते । १३ । १७ । १०५ । “पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥” पद्ममिव वर्त्तुलाकृतिः नाभिर्यस्य । धृतराष्ट्रपुत्त्रा- णामन्यतमः । यथा, महाभारते । १ । ६७ । ९५ । “ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ ॥” नागविशेषः । यथा, तत्रैव । १२ । ३५५ । ४ । “कृताधिवासो धर्म्मात्मा तत्र चक्षुःश्रवा महान् । पद्मनाभो महानाभः पद्म इत्येव विश्रुतः ॥”) भाविजिनविशेषः । इति हेमचन्द्रः ॥ (स्तम्भ- नास्त्रविशेषः । यथा, गोः रामायणे १ । ३१ । ७ । “पद्मनाभो महानाभः सुनाभो दुन्दुभिस्वनः ॥”)
