सामग्री पर जाएँ

पद्मपत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पद्मपत्रम्, क्ली, (पद्मस्य पत्रमिव । पद्मपर्णसादृश्या- दस्य तथात्वम् ।) पुष्करमूलम् । इत्यमरः । २ । ४ । १४५ ॥ (यथा, सुश्रुते चिकित्सितस्थाने ५ अध्याये । “शैवलपद्मकपद्मपत्रप्रभृतिभिः ॥” * ॥ पद्मस्य पत्रम् ।) कमलदलम् ॥ (यथा, हठयोग- दीपिकायाम् । २ । ७० । “अन्तः प्रवर्त्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात् प्लवते पद्मपत्रवत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पद्मपत्रम्&oldid=146641" इत्यस्माद् प्रतिप्राप्तम्