पद्मपुराण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मपुराण¦ न॰ व्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्यादिनारदीयपु॰ उक्तं यथाप्रथमे सृष्टिखण्डे
“पुलस्त्येन तु भीष्माय सृष्ट्यादि-क्रमतो द्विज!। नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मवि-स्तरः। पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्त्तितम्। ब्रह्मयज्ञविधानञ्च वेदपाठादिलक्षणम्। दानानां कीर्त्तनंयत्र वृत्तानाञ्च पृथक् पृथक्। विवाहः शैलजायाश्चतारकाख्यानकं महत्। माहात्म्यञ्च गवादीनां कीर्त्तितंसर्वपुण्यदम्। कालकेयादिदैत्यानां बधो यत्र पृथक्पृथक्। ग्रहाणामर्च्चनं दानं यत्र प्रोक्तं द्विजोत्तम!। तत् सूष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना” द्वितीये भूमि-खण्डे
“पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरः। सुव्रतस्य कथा पश्चात् वृत्रस्य च बधस्तथा। पृथीर्वेणस्यचाख्यानं धर्माख्यानं ततः परम्। पितृशुश्रूषणा-ख्यानं नहुषस्य कथा ततः। ययाति--चरितञ्चैव गुरु-तीर्थनिरूपणम्। राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथा-युतः। कथा ह्यशोकसुन्दर्य्या हुण्डदैत्यबधाचिता। कामोदाख्यानकं तत्र विहुण्डबवसंयुतम्। कुः, लस्यच सवादश्च्यवनेन महात्मना। सिद्धाख्यान ततःप्रोक्तं ण्ढण्डस्यास्य फलोहनम्। सूतशौनकसंवादं भूमि-खण्डमिद स्मृतम्”। तृतीये स्वर्गखण्डे
“ब्रह्माण्डोत्-पत्तिरुदिता यत्रर्षिभ्यश्च सौतिना। सभूमिलोक-संस्थानं तीर्थाख्यानं ततः परम्। नर्मदोत्पत्तिकथनंतत्तीर्थानां कथा पृथक्। कुरुक्षेत्रादितीर्थानां कथाःपुण्याः प्रकीर्त्तिताः। कालिन्दीपुण्यकथनं काशी-माहात्म्यवर्णनम्। गयायाश्चैव माहात्म्य प्रयागस्यच पुण्यकम्। वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम्। व्यासजैमिनिसंवादः पुण्यकर्मकथाचितः। समुद्रमथना-ख्यानं व्रताख्यानं ततः परम्। ऊर्ज्जपञ्चाहमाहात्म्यं स्तोत्रं सर्वापराधनुत्। एतत् स्वर्गाभिधंविप्र! सर्वपातकनाशनम्”। चतुर्थे पातालखण्डे
“रामाश्वमेधे प्रथमं रामराज्याभिषेचनम्। अगस्त्या-द्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम्। अश्वमेघोप-देशश्च हयचर्य्या ततःपरम्। नाना राजकथाः पुण्याजगन्नाथानुवर्णनम्। वृन्दावनस्य माहात्म्यं सर्वपाप-प्रणाशनम्। नित्यलीलानुकथनं यत्र कृष्णावतारिणः। माधवस्नानमाहात्म्ये स्नानदानार्च्चने फलम्। धरा-वराहसंवादो यमब्राह्मणयोः कथा। संवादो राज-[Page4227-a+ 38] दूतानां कृष्णस्तोत्रनिरूपणम्। शिवशम्भुसमायोगोदधीच्याख्यानकन्ततः। भस्ममाहात्म्यमतुलं शिवमा-हात्म्यमुत्तमम्। देवरातसुताख्यानं पुराणाञ्च प्रशं-सनम्। गौतमाख्यानकञ्चैव शिवगीता ततः स्मृता। कल्पान्तरी रामकथा भारद्वाजाश्रमस्थितौ। पाताल-खण्डमेतद्धि शृण्वतां ज्ञानिनां सदा। सर्वपापप्रशमनंसर्वाभीष्टफलप्रदम्”। पञ्चमे उत्तरखण्डे
“पर्वताख्यानकंपूर्वंगौर्य्यै प्रोक्तं शिवेन वै। जालन्धरकथा पश्चात् श्री-शैलाद्यनुकीर्त्तनम्। सागरस्य कथा पुण्या ततःपरमुदी-रिता। गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम्। आम्रादिदानमाहात्म्यं तन्महाद्वादशीव्रतम्। चतु-र्विंशैकादशीनां माहात्म्यं पृथगीरितम्। विष्णुधर्भ-समाख्यानं विष्णुनामसहस्रकम्। कार्त्तिकव्रत-माहात्म्यं माघस्नानफलन्ततः। जम्बुद्वीपस्य तीर्थानांमाहात्म्यं पापनाशनम्। साधुमत्याश्च माहात्म्यंनृसिंहोत्पत्तिवर्णनम्। देवशर्मादिकाख्यानं गीता-माहात्म्यवर्णने। भक्त्याख्यानञ्च माहात्म्यं श्रीम-द्भागवतस्य ह। इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथा-चितम्। मन्त्ररत्नाभिधानञ्च त्रिपाद्भूत्यनुवर्णनम्। अवतारकथा पुण्या मत्स्यादीनामतःपरम्। रामनाम-शतं दिष्यं तन्माहात्म्यञ्च बाडव!। परीक्षणञ्च भृगुणाश्रीविष्ण्योर्वैभवस्य च। इत्येतदुतरं खण्डं पञ्चमंसर्वपुण्यदम्” तत्फलश्रुतिः
“पञ्चखण्डयुतं पाद्मंयः शृणोति नरोत्तमः। स लभेद्वैष्णवं धाम भुक्त्वाभोभानिहेप्सितान्। एतद्वै पञ्चपञ्चाशत्सहस्रं पद्म-संज्ञकम्। पुराणं लेखयित्वा वै ज्यैष्ठ्यां स्वर्णाज्य-संबुतम्। यः प्रदद्यात् सुमतये पुराणज्ञाय मानदः। स याति वैष्णवं धाम सर्वदेवनमस्कृतः। पद्मानुक्रमणी-मेतां यः पठेत् शृणुयात् तथा। सोऽपि पद्मपुराणस्यलभेत् श्रवणजं फलम्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मपुराण/ पद्म--पुराण n. N. of sev. पुराणs.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PADMAPURĀṆA : One of the eighteen Purāṇas. (See under Purāṇas).
_______________________________
*14th word in right half of page 544 (+offset) in original book.
