सामग्री पर जाएँ

पद्मबन्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पद्मबन्धः, पुं, (पद्मस्येव बन्धो रचना यस्य ।) चित्रकाव्यविशेषः । शब्दालङ्कारप्रभेदः । यथा, “पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।” अस्य च तथाविधसन्निवेशवशेन चमत्कार- विधायिनामपि वर्णानां तथाविधश्रोत्राकाश- समवायविशेषवशेन च चमत्कारविधायिभि- र्वर्णैरभेदेनोपचारत्वाच्छब्दालङ्कारत्वम् । उदा- हरणं यथा, साहित्यदर्पणे ॥ “मारमा सुषमा चारु रुचा मार बधूत्तमा । मात्त धूर्त्ततमा वासा सा वामा मेस्तु मा रमा ॥” अद्म पद्मदलेषु वर्णविन्यासक्रमः ॥

"https://sa.wiktionary.org/w/index.php?title=पद्मबन्धः&oldid=146654" इत्यस्माद् प्रतिप्राप्तम्