पद्मभूः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मभूः पुं, (पद्मं विष्णुनाभिभवकमलं भूरुत्पत्ति- स्थानं यस्य । (यद्बा, पद्मात् भवतीति । भू + क्विप् ।) ब्रह्मा । इति हलायुधः ॥ (अस्योत्पत्ति- कथा यथा भागवते । ९ । १ । ८ -- ९ । “परावरेषां भूतानामात्मा यः पुरुषः परः । स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन ॥ तस्य नाभेः समभवत् पद्मकोशो हिरण्मयः । तस्मिन् जज्ञे महाराज ! स्वयम्भूश्चतुराननः ॥”)
