पद्मराग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मरागः, पुं, (पद्मस्येव रागो यस्य ।) रक्तवर्ण- मणिविशेषः । माणिक इति भाषा । तत्प- र्य्यायः । शोणरत्नम् २ । लोहितकः ३ । इत्य- मरः । २ । ९ । ९२ ॥ लोहितम् ४ । कुरुबिन्दकम् ५ । इति शब्दरत्नावली ॥ (बृहत्संहितायां ८२ अध्याये अस्य परीक्षादिकं यथा, -- “सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः । सौगन्धिकजा भ्रमराञ्जनाब्जजम्वूरसद्युतयः ॥ कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभि- र्विद्धाः । स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥ स्रिग्धः प्रभानुलेपो स्वच्छोऽर्च्चिष्मान् गुरुः सुसंस्थानः । अन्तःप्रभोऽतिरागा मणिरत्नगुणाः समस्ता- नाम् ॥ कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः । दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥ भ्रमरशिखिकण्ठवर्णा दीपशिखासमप्रभो भुजङ्गानाम् । भवति मणिः किल मूर्द्धनि योऽनर्घेयः स विज्ञेयः ॥ यस्तं बिभर्त्ति मनुजाधिपतिर्न तस्य दोषा भवन्ति विषरोगकृताः कदाचित् । राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूश्च नाशयति तस्य मणेः प्रभावात् ॥ षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रमा- णस्य । कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥ अर्द्धपलस्य द्वादशकर्षस्यैकस्य षट् सहस्राणि । यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥ एकोनो नूयते यस्तु जवाकुसुमसन्निभः । कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश ॥ बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते । कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः । कार्षापणशतानान्तु विंशतिं मूल्यमादिशेत् ॥ चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः । मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् ॥ द्विमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः । तस्य मूल्यं विधातव्यं द्बिशतं तत्त्ववेदिभिः ॥ माषकैकमितो यस्तु पद्मरागो गुणान्वितः । शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः ॥ अतोऽन्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः । स्वर्णद्विगुणमूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ कार्षापणः समाख्यातः पुराणद्बयसम्मितः । अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः ॥ काषाया इति विख्याताः स्फटिकप्रभवाश्च ते । तेषां दोषान् गुणान् वापि पद्मरागवदादिशेत् ॥ मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा । ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः ॥ चतुर्विधैर्नृपतिभिर्धार्य्या सम्पत्तिहेतवे । अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम् ॥” इति युक्तिकल्पतरौ पद्मरागपरीक्षा ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मराग पुं।
पद्मरागमणिः
समानार्थक:शोणरत्न,लोहितक,पद्मराग
2।9।92।2।3
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः। शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मराग¦ न॰ पद्मस्येव रागोऽस्य। रक्तवर्णमणिभेदे तल्लक्ष-णादि वृ॰ सं॰
४० उक्तं यथा
“सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः। सौगन्धिकजा भ्रमराञ्जनाब्जजम्बुरसद्युतयः। कुरु-विन्दुभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः। स्फटिक-भवा द्युतिमन्तो नानावर्णा विशुद्धाश्च। स्निग्धः प्रभा-नुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः। अन्तःप्रभाऽ-तिरागा मणिरत्नगुणाः समस्तानाम्। कलुषा मन्द-द्युतयो लेखाकीर्णाः सधातवः खण्डाः। दुर्विद्धा नमनोज्ञाः सशर्कराश्चेति मणिदोषाः। भ्रमरशिखिक-ण्टवर्णो दीपशिखासमप्रभो भुजङ्गानाम्। भवति मणिःकिल मूर्धनि योऽनर्घो वै स विज्ञेयः। यस्तं बिभर्त्तिमनुजाधिपतिर्न तस्य दोषा भवन्ति विषरोगकृताःकदाचित्। राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूंश्चनाशयति तस्य मणेः प्रभावात्। षड्विंशतिः सहस्रा-ण्येकस्य मणेः पलप्रभाणस्य। कर्षत्रयस्य विंशतिरुप-दिष्टा पद्मरागस्य। अर्द्वपलस्य द्वादश कर्षस्यैकस्य षट्सहस्राणि। यच्चाष्टमाषैतं तस्य स हस्त्रत्रयं मूल्यम्। माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ। परि-कल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम्। वर्णमूल-स्यार्धं तेजोहीनस्य मूल्यमष्टांशः। अल्पगुणो बहुदोषोमूल्यात्। प्राप्नोति विंशांशम्। आधूम्रं व्रणवहुलंस्वल्पगुणं चाप्नुयादुद्विंशभागम्। इति पद्मरागभूल्यंपूर्वाचार्य्यैः समुद्दिष्टम्”। युक्तिकल्पतरौ चात्रविशेषो यथा
“सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम्। पीतं काणपुरोद्भूतं कुरुविन्दमिति स्मृतम्। अशोकपल्लवच्छाय-ममुं सौगन्धिकं विदुः। तुम्बुरे छायया नीलं नील-गन्धि प्रकीर्त्तितम्। उत्तमं सिंहलोद्भूतं निकृष्टं तु-म्बुरोद्भवम्। मध्यमं मध्यजं ज्ञेयं माणिक्यं क्षेत्रभे-दतः” तथा
“बन्धूकगुञ्जाशकलेन्द्रगापजवासनासृक्[Page4228-a+ 38] समवर्णशोभाः। भ्राजिष्णवो दाडिमवीजवर्णास्तथा परेकिंशुकपुष्पभासः। सिन्दूरपद्मोत्पलकुङ्कुमानां ला-क्षारसस्यापि समानवर्णाः। सान्द्रेऽतिरागे प्रभयास्वयैव भान्ति स्वलक्ष्या स्पुटमध्यशोभाः। भानोश्च भासामनुवेधयोगमासाद्य रश्मिप्रकरेण दूरम्। पार्श्वानिसर्वाण्यनुरम्लयन्ति गुणोपपन्नाः स्फटिकप्रसूताः। कुसु-म्भनीलीव्यतिमिश्ररागप्रत्यग्ररक्ताम्बरतुल्यभासः। तथापरेऽरुष्करकण्टकारीपुष्पत्विषो हिङ्गुलकत्विषोऽन्ये। च-कोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित्। अन्ये पुनर्नातिविपुष्पितानां तुल्यत्विषः कोकनदोदरा-णाम्। प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फ-टिकोद्भदानाम्। आनीलरक्तोत्पलचारुभासः सौग-न्धिकाख्या मणयो मवन्ति। यो मन्दराभः कुरुविन्द-जेषु स एव जातः स्फटिकोद्भवेषु। निरर्चिषोऽन्तर्बहु-लीभवन्ति प्रभाववन्तीऽषि न तत्समानाः। ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः। पद्मरागा घनं रागंबिभ्राणाः स्वस्फुटार्च्चिषः। वर्णानुयायिनस्तेषामन्ध्रदेशेतथाऽपरे। न जायन्ते तु ते केचित् मूल्यलेशमवाप्नुयुः। तथैव स्फटिकोत्थानां देशे तुम्बुरसंज्ञके। सधर्माणःप्रजायन्ते स्वल्पमूल्या हि ते स्मृताः”। जात्यादि
“मा-णिक्यस्य प्रवक्ष्यामि यथा जातिचतुष्टयम्। व्रह्मक्ष-त्रियवैश्याश्च शूद्रश्चाथ यथाक्रमम्। रक्तश्वेतो भवेद्वि-प्रस्त्वतिरक्तस्तु क्षत्रियः। रक्तपीती भवेद्वैश्यो रक्तनी-लस्तथाऽन्त्यजः। पद्मरागो भवेद्विप्रः कुरुविन्दस्तु बा-हुजः। सौगन्धिको भवेद्वैश्यो मांसखण्डस्तथान्त्यजः।{??}ओणपद्मसमाकारः खदिराङ्गारसप्रभः। पद्मरागोद्विजः प्रोक्तश्छायाभेदेन सर्वदा। गुञ्जासिन्दूरबन्धूक-नागरङ्गसमप्र{??}। दाडिमीकुसुमाभासः कुरुविन्दस्तुबाहुजः। हिङ्गुलाभाशोकपुष्पाभमोषत्पीतलोहितम्। जवालाक्षारसप्रायं वैश्यं सौगन्धिकं विदुः। आरक्तःकान्तिहीनश्च चिक्वणश्च विशेषतः”। मांसखण्डसमा-भासो ह्यन्त्वजः पापनाशनः”। तद्दोषादि
“माणिक्यस्य स-माख्याता अष्टौ दोषा मुनीश्वरेः। द्विच्छायञ्च द्विरूपञ्चसम्भेदः कर्करन्तथा। अशोभनं कोकिलञ्च जलं धूम्राभि-घञ्च वै। गुणाश्चत्वार आख्याताश्छायाः षोडश की-र्त्तिताः”। छायास्तु पूर्वोक्ता एव
“छाया द्वितयसम्बन्धाद्द्विच्छायं बन्धुनाशनम्। द्विरूपं द्विपदं तेन माणिक्येनपराभवः। सम्भेदी भिन्नमित्युक्तः शस्त्रवातविधाथकः। [Page4228-b+ 38] कर्करं कर्करायुक्तं पशुबन्धु विनाशकृत्। दुग्धेनेव समा-लिप्तं मणेः पुटकमुच्यते। अशोभनं समुद्दिष्टं माणिक्यंबहुदुःखकृत्। मधुविन्दुसमच्छायं कोकिलं परिकीर्त्ति-तम्। आयुर्लक्ष्मीर्यशो हन्ति सदोषं तन्न धारयेत्। रागहीनं जलं प्रोक्तं धनधान्यापवादकृत्। धूम्रं धूमस-माकारं वैद्युतं भयमावहेत्”। तथा
“शोभाद्वितयवन्तोये मणयः क्षतिकारकाः। उभयत्र पदं येषां तेन चस्वात् पराभवः। भिन्नेन युद्धे मृत्युः स्यात् कर्करंधननाशकृत्। दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत्। दुःखकृत् स समाख्यातो न नृपैरक्षणीयकः। मधु-विन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता। तेषां चबहुभेदाः स्युर्न ते धार्य्या कदाचन”। अथ गुणाः
“गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता। वर्णाधिकंगुरुत्वञ्च स्निग्धता समताऽच्छता। अर्चिष्मत्ता महत्ता चमणीनां गुणसंग्रहः”। फलम्
“ये कर्कराश्छिद्रमलोप-दिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः। न ते प्रशस्ता-मणयो भवन्ति समानतो जातिगुणैः समस्तैः। दोषोप-सृष्टं मणिमप्रबोधाद्विभर्त्ति यः कश्चन कञ्चिदेकम्। तं बन्धुदुःखायसबन्धवित्तनाशादयो दोषगुणाः भ-जन्ते। सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपिवर्त्तमानम्। न पद्मरागस्य महागुणस्य भर्त्तारमापत्समुपैति काचित्। दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तंसमभिद्रवन्ति। गुणैः स मुख्यैः सकलैरुपेतो यः पद्मरागंप्रयतो बिभर्त्ति”। परीक्षा यथा
“बालार्ककरसंस्पर्शात्यः शिखां लोहितां वमेत्। रञ्जयेदाश्रयं वापि समहागुण उच्यते। दुग्धे शतगुणे क्षिप्तो रञ्जयेद्यः सम-न्ततः। वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः। अन्धकारे महाघोरे यो न्यस्तः सन्महामणिः। प्रका-शयति सूर्य्याभः सु ग्नेष्ठः पद्मरागकः। पद्मकोषे तुयन्न्यस्तं विकाशयति तत्क्षणात्। पद्मरागवरो ह्येषदेवानामपि दुर्लभः। सर्वारिष्टप्रशमनाः सर्वसम्पत्ति-दायकाः। चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम्। यो मणिर्दृश्यते दूराज्ज्वलदग्निसमच्छविः। वंशकान्वितःस विज्ञेयः सर्वसम्पत्तिकारकः। पञ्चसप्तनवविंशतिरागःक्षिप्त एव सकलः खलु वस्त्रे। वर्जयेद्वमति वा कर-जालमुत्तरोत्तरमहागुणिनस्ते। नीलं रसं दुग्धरसंजलं वा ये रञ्जयन्ति द्विशतप्रमाणम्। ते ते यथापूर्व-सतिप्रशस्ताः सौभाम्यसम्पत्तिविधानदाश्च”। परि-[Page4229-a+ 38] माणम्
“गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान्। पद्मरागस्तुलयति यथापूर्वं महागुणः। क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान्। पद्मरागस्तुलयतियथापूर्वं महागुणः। यदरीफलतुल्यो यः स्वरदिग्-वसुमाषकः। तथा धात्रीफलत्रिंशद्विंशतिद्व्यष्टमा-षकः। तथाक्षफलतुल्यो यो वह्निपक्षैकमाषकः। ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः। विम्बीफल-समाकारो बसुषड्दशतोलकः। अतःपरं प्रमाणेनमानेन च न लभ्यते। यदि लभ्येत पुण्येन तदा सिद्धि-मवाप्नुयात्। केचिच्चारुतराः सन्ति जातीनां प्रति-रूपकाः। विजातयः प्रयत्नेन विद्वांस्तानुपलक्षयेत्। कलसपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तमालीयाः। श्री-पर्णिकायाः सदृशा विजातयः पद्मरागाणाम्। तुषोप-सर्गात् कलसाभिधानमाताम्रभावादपि तुम्बुरोत्थम्। कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्तामिधानं नभसः स्वभा-वात्। श्रीपर्णकं दीप्तिनिराकृतित्वाद्विजातिलिङ्गा-श्रय एष भेदः”। तथा
“स्नेहप्रदेहो मृदुता लघुत्वंवि{??}तिलिङ्गं खलु सर्वजन्यम्। यः श्यामिकां पुष्यतिपद्मरागो यो वा तुषाणाभिव चूर्णमध्यः। स्नेहपदिग्धोन च यो विभाति यो वा प्रमृष्टः प्रजहाति दीप्तिम्। आक्रान्वमूर्द्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतांबिभर्त्ति। सम्प्राप्य चोत्क्षेपपथानुवृत्तिं विभर्त्ति यःसर्वगुणानतीव। तुल्यप्रमाणस्य च तुल्यजाते यो वागुरुत्वेन भवेन्न तुल्यः। प्राप्यापि रत्नाकरजां स्वजातिंलक्षेत् गुरुत्वेन गुणेन विद्वान्। अप्रणश्यति सन्देहेशिलायां परिथर्षयेत्। घृष्टो योऽत्यन्तशोभावान् परि-माणं न मुञ्चति। स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्येविजातयः। स्वजातकसमुत्थेन विलिखेद्वा परस्परम्। वज्रं वा कुरुविन्दं वा विमुच्यान्योन्यकेन चेत्। न शक्यंसेखनं कर्तुं पद्मरागेन्द्रनीलयोः। जात्यस्य सर्वेऽपिमणेर्न जातु विजातयः कान्तिसमानवर्णाः। तथापिनानाकरणार्थमेवं भेदप्रकारः परयोः प्रदिष्टः। गुणोप-यन्नेन सहावबद्धो मणिस्तु धार्य्यो विगुणेन जात्यः। नकौस्तुभेनापि सहावबद्धं विद्वान् विजातिं बिभृयात्कदाचित्। चण्डाल एकोऽपि यथा द्विजातीन् समेत्यभूरीनपहन्त्ययत्नात्। तथा गणीन् भूरिगुणोपपन्नान्शक्नोति विद्रावयितुं विजातः”। तस्य मूल्यम्
“वाला-र्कामिमुखं कृत्वा दर्पणे धारयेन्मणिम्। तत्र कान्ति-[Page4229-b+ 38] विभागेन छायाभागं विनिर्दिशेत्। वन्रस्य यत्तण्डुल-संख्ययोक्तं मूल्यं समुन्मेपितगौरवस्य। तत् पद्मरागस्यगुणान्वितस्य स्यान्माषकाख्यातुलितस्य मूल्यम्। यन्मूल्यंपद्मरागस्य सगुणस्य प्रकीर्त्तितम्। तावन्मूल्यं तथाशुद्धे कुरुविन्दे विधीयते। सगुणे कुरुविन्दे च याब-न्मूल्यं प्रकीर्त्तितम्। तावन्मूल्यं चतुर्थांशहीनं स्याद्वैसुगन्धिके। यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः। तावन्मूल्यं चतुर्थांशात् हीयते शूद्रजन्मनि। पद्मरागःपलं यस्तु धत्ते लाक्षारसप्रभः। कार्षापणसहस्राणित्रिंशन्मूल्यं लभेत सः। इन्द्रतीलकसङ्काशः कर्षत्रयधृतो मणिः। द्वाविंशतिसहस्रार्णा तस्य मूल्यं विनि-र्दिशेत्। एको नोनूयते यस्तु जवाकुसुमसन्निभः। कार्षापणसहस्राणि तस्य मूल्यं चतुर्दश। बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते। कार्षापणशतानान्तुमूल्यं सद्भिः प्रकीर्त्तितम्। यस्तु दाडिमपुष्पाभः कर्षा-र्द्धेन तु सम्मितः। कार्मापणशतानान्तु विंशतिं मूल्य-मादिशेत्। चत्बारो माषका यस्तु रक्तोत्पलदलप्रभः। मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम्। द्विमाषकोयस्तु गुणैः सर्वैरेव समन्वितः। तस्य मूल्यं विधातव्यंद्विशतं तत्त्ववेदिभिः। माषकैकमितो यस्तु पद्मरागोगुणान्वितः। शतकसम्मितं वाच्यं मूल्यं रत्मविचक्षणैः। अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः स्वर्ण-द्विगुणमूल्येन मूल्यं तैषां{??}। कार्षापणः समा-ख्यातः पुराणद्वय{??}तः।{??} म्भपानीयमञ्जि-ष्ठोदकसन्निभाः। कार्षाया इति वि{??}ताः स्फटिक-प्रभवाश्च ते। तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत्। मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा। ब्रह्मक्षत्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः। चतुर्विधै-र्नृपतिभिर्धार्य्या सम्पत्तिहेतवे। अतोऽन्यथा धृतःकुर्य्याद्रोगशोकभयक्षयम्” अत्र तस्य क्लीवत्वमप्युक्तम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मराग¦ m. (-गः) A ruby. E. पद्म a lotus, and राग colour.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मराग/ पद्म--राग m. " lotus-hued " , a ruby L. (also -कHcat. ; 615666 ग-मयmf( ई)n. made or consisting of rubies Ka1ran2d2 )
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PADMARĀGA : See under Navaratna.
_______________________________
*15th word in right half of page 544 (+offset) in original book.
