पद्मवीज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मवीजम्, क्लीं, (पद्मस्य वीजम् ।) कमलवीजम् । तत्पर्य्यायः । पद्माक्षम् २ गालोड्यम् ३ कन्दली ४ भेण्डा ५ क्रौञ्चादनी ६ क्रौञ्चा ७ श्यामा ८ पद्मपर्क्कटी ९ । अस्य गुणाः । कटुत्वम् । स्वादुत्वम् । पित्तच्छर्द्दिदाहास्रशोषनाशित्वम् । पाचनत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥ “पद्मवीजं हिमं स्वादु कषायं तिक्तकं गुरु । विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम् ॥ कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत् ॥” इति भावप्रकाशः ॥ (पद्मबीजमालाजपेनाशु साधकः सिद्धिमाप्नुयात् । इति तन्त्रशास्त्रे प्रसिद्धिः ॥ तदुक्तं यथा, -- “भक्त्या यो जपते नित्यं पद्मवीजैः सुदेशिकः । अचिराल्लभते सिद्धिं सत्यं सत्यं न संशयः ॥”
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्म(बी)वीज¦ न॰
६ त॰। कमलवी(बी)जे पद्माक्षे राजनि॰
“पद्म(बी)वीजं हिमं स्वादु कषायं तिक्तकं गुरु। वि-ष्ट{??} वृष्यं रूक्षञ्च गर्भसंस्थापकं परम्” भावप्र॰।
