सामग्री पर जाएँ

पद्मासनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पद्मासनम्, क्ली, (पद्ममिव पद्माकारेण बद्धमित्यर्थः । आसनम् ।) योगासनविशेषः । यथा, -- “वामोरूपरि दक्षिणं नियमतः संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्या कराभ्यां धृतम् । अङ्गुष्ठं हृदये निधाय चिवुकं नासाग्रमालोकये- देतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ॥” अन्यदत्रापि । “वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा- प्यन्योरूपरि तस्य बन्धनविधौ धृत्वा कराभ्यां दृढम् । अङ्गुष्ठं हृदये निधाय चिवुंकं नासाग्रमालोकये- देतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥” इति गोरक्षसंहिता ॥ (मत्स्येन्द्रनाथाभिमतं पद्मासनं यथा, हठयोग- दीपिकायाम् । १ । ४४-४७ । “वामोरूपरिदक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन् विधिना धृत्वा कराम्यां दृढं । अङ्गुष्ठौ हृदये निघाय चिवुकं नासाग्र- मालोकयेदेतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततोदृशौ ॥ नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिवुकं वक्षस्युत्थाप्य पवनं शनैः ॥ इदं पद्मासनं प्रोक्तं सर्व्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥”) पूजार्थं धातुमयपद्माकारासनञ्च । (रतिविषयकपद्मासनम् यथा, रतिमञ्जर्य्याम् ४० “पद्मासनो नागपादो लतावेष्टोऽर्द्धसंपुटः ॥” तल्लक्षणं यथा, तत्रैव ४२ । “हस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि । रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पद्मासनम्&oldid=146686" इत्यस्माद् प्रतिप्राप्तम्