सामग्री पर जाएँ

पद्मिनीकण्टकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पद्मिनीकण्टकः, पुं, (पद्मिनीकण्टक इव आकृति- र्विद्यतेऽस्य ।) क्षुद्ररोगविशेषः । पद्मका~टा इति भाषा । तल्लक्षणं यथा, -- “कण्टकैराचितं वृत्तं कण्डूमत्पाण्डुमण्डलम् । पद्मिनी कण्टकप्रख्यैस्तदाख्यं कफवातजम् ॥” आचितं व्याप्तम् । पद्मिनीकण्टकप्रख्यैः पद्मिनी- नालकण्टकसदृशैः । तदाख्यं पद्मिनीकण्टक- नामकम् ॥ * ॥ तच्चिकित्सा यथा, -- “पद्मिनीकण्टके रोगे छर्द्दयेन्निम्बवारिणा । तेनैव सिद्धं सक्षौद्रं सर्पिः पातुं प्रदापयेत् ॥ निम्बारग्बधकल्कैर्व्वा मुहुरुद्बर्त्तनं हितम् । चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम् ॥ पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजैः । कल्कैर्भूयः पचेत् सिद्धं तत् पिबेत् पलसंमितम् ॥ पद्मिनीकण्टकाद्रोगान्मुक्तो भवति नान्यथा ॥” इति निम्बादिघृतम् । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=पद्मिनीकण्टकः&oldid=146691" इत्यस्माद् प्रतिप्राप्तम्