पद्मी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्मी, [न्] पुं, (पद्मं बिन्दुजालकमस्त्यस्य । पद्म + इनिः ।) हस्ती । इत्यमरः । २ । ८ । ३५ ॥ (यथा, महाभारते । १२ । २९ । ६६ । “सर्व्वा रथगताः कन्या रथाः सर्व्वे चतुर्युजः । शतं शतं रथे नागाः पद्मिनो हेममालिनः ॥” नाभिकमले हस्ते वा पद्ममस्यास्तीति । विष्णुः । यथा, महाभारते । १३ । १४९ । ५० । “अनुकूलः शतावर्त्तः पद्मी पद्मनिभेक्षणः । पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ॥”)
