पद्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पद्यम्, क्ली, (पदं चरणमर्हतीति । पद + यत् ।) कविकृतिः । श्लोकः । इत्यमरः । ३ । ५ । ३१ ॥ तस्य लक्षणं यथा, छन्दोमञ्जर्य्याम् । “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥” (तत्तु अन्वयगतिवशात् मुक्तकयुग्मकसन्दानितक- कलापककुलकभेदात् पञ्चविधम् । यदुक्तं साहित्य- दर्पणे । ६ । २८७ । “छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् । द्बाभ्यान्तु युग्मकं सन्दानितकं त्रिभिरिष्यते ॥ कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ॥” “तदूर्द्ध्वं कुलकं स्मृतम् ।” इति क्वचित् पाठः ॥) शाठ्यम् । इति जटाधरः ॥ (“पदमस्मिन् दृश्यम् ।” ४ । ४ । ८७ । इति यत् । नाति- शुष्ककर्द्दमः । इति सिद्धान्तकौमुदी ॥)
