सामग्री पर जाएँ

पनसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पनसः, पुं, (पनाय्यते स्तूयतेऽनेन देवः मनुष्यादि- र्वेति । यद्वा पनायति स्तौति सन्तोषयती- त्यर्थः देवमनुष्यादीन् इति । पन स्तुतौ + “अत्यविचमितमीति ।” उणां । ३ । ११७ । इति असच् ।) फलवृक्षविशेषः । का~टाल इति भाषा ॥ (यथा भागवते । ८ । २ । १० । “चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ॥”) तत्पर्य्यायः । कण्टकिफलः २ । इत्यमरः । २ । ४ । ६१ ॥ महासर्ज्जः ३ फलिनः ४ फलवृक्षकः ५ स्थूलः ६ कण्टफलः ७ मूलफलदः ८ अपुष्प- फलदः ९ पूतफलः १० चम्पकोषः ११ चम्पालुः १२ कण्टकीफलः १३ रसालः १४ मृदङ्गफलः १५ पानसः १६ । इति शब्दरत्नावली ॥ अस्य फल- गुणाः । मधुरत्वम् । सुपिच्छिलत्वम् । गुरुत्वम् । हृद्यत्वम् । बलवीर्य्यवृद्बिदत्वम् । श्रमदाह- विशोषनाशित्वम् । रुचिकारित्वम् । ग्राहित्वम् । परमदुर्ज्जरत्वञ्च । तद्बीजगुणाः । ईषत्कषाय- त्वम् । मधुरत्वम् । वातलत्वम् । गुरुत्वम् । रुच्यत्वम् । तत्फलविकारत्वग्दोषनाशित्वञ्च । “बालन्तु नीरसं हृद्यं मध्यं पक्वन्तु दीपनम् । रुचिदं लवणाभ्यक्तं पनसस्य फलं स्मृतम् ॥” इति राजनिर्घण्टः ॥ * ॥ “पनसः कण्टकिफलः फणाशोऽतिबृहत्फलः । पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् ॥ तर्पणं बृंहणं स्वादु मांसलं श्लेष्मलं भृशम् । बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतक्षयान् ॥ आमन्तदेव विष्टम्भि वातलं तुवरं गुरु । दाहकृन्मधुरं बल्यं कफमेदोविमर्द्दनम् ॥ पनसोद्भूतबीजानि वृष्याणि मधुराणि च । गुरूणि वद्धवर्चांसि सृष्टमूत्राणि संवदेत् ॥” अन्यच्च । “मज्जाः पनसजो वृष्यो वातपित्तकफापहः । विशेषात् पनसं वर्ज्यं गुल्मिभिर्मन्दवह्निभिः ॥ अलं पनसपाकाय फलं कदलसम्भवम् ॥” इति भावप्रकाशः ॥ * ॥ “कण्टाफलं सुमधुरं बृंहणं स्निग्धशीतलम् । दुर्ज्जरं वातपित्तघ्नं श्लेष्मशुक्रबलप्रदम् ॥ तदेव सर्पिषा युक्तं स्निग्धं हृद्यं बलप्रदम् । छर्द्दिघ्नं न च चक्षुष्यं वृष्यञ्च वातपित्तनुत् ॥ कण्टाफलमपक्वन्तु कषायं स्वादु वातलम् । रक्तपित्तहरं स्वादु तत्फलास्थ्यपि तद्गुणम् ॥” इति राजवल्लभः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पनसः [panasḥ], 1 The bread-fruit or jack tree.

A thorn.

सा, सी A kind of malady, pustular and phlegmonoid inflammation of the skin or external organs.

A female monkey.

A female demon. -सम् The fruit of the bread-fruit tree.

"https://sa.wiktionary.org/w/index.php?title=पनसः&oldid=414139" इत्यस्माद् प्रतिप्राप्तम्