पयोधरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पयोधरः, पुं, (धरतीति धरः । धृ + अच् । पयसो दुग्धस्य जलस्य वा धरः ।) स्त्रीस्तनः । (यथा, रघुः । १४ । २२ । “षडाननापीतपयोधरासु नेता च मूलामिव कृत्तिकासु ॥”) मेघः । इत्यमरः । ३ । ३ । १६३ ॥ कोषकारः । नारिकेलम् । कशेरु । इति मेदिनी ॥
