पयोनिधिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पयोनिधिः, पुं, (पयांसि निधीयन्तेऽस्मिन् । धा धारणे + अधिकरणे किः ।) समुद्रः । यथा, -- “न गणितं यदि जन्म पयोनिधौ हरशिरःस्थितिभूरपि विस्मृता ।” इति नैषधे । ४ । ५० ॥ (पय इव शुक्लः सत्त्व- गुणः निधीयतेऽत्र इति विग्रहे । शिवः । यथा, महाभारते । १३ । १७ । ८७ । “लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ॥”)
